2026-03-05 04:33:15 by ambuda-bot
This page has not been fully proofread.
४४४
भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे पञ्चमो वर्गः,
१४९३ - न गच्छामि पुरा लङ्का-
मा॑यु॒र् यावद् दधाम्य॑हम्, ॥
कदा भवति मे प्रीतिस्,
त्वां पश्यामि न चेदहम् ॥ ३५ ॥
न गच्छामीत्यादि - यावदहमायुर्दधामि धारयिष्यामि । '२७८३ । याब-
स्पुरानिपातयोर्लट् ॥३।३ । ४ । ' इति भविष्यति लट् । पुराशब्दोऽत्र भविष्यदा-
सत्तिमाह । प्रीतिर्हि लङ्काप्रवेश इति दर्शयन्नाह — चेद्यद्यहं त्वां जीवन्तं न
पश्यामि । वर्तमाने लट् । कदा कस्मिन् काले मे मम प्रीतिर्भवति भविष्यति ।
'२७८४। विभाषा कदाकह्यः । ३।३।५।' इति भविष्यति लट् ॥
१४९४ - ऊर्ध्वं म्रिये मुहूर्ताद्धि
विह्वलः क्षत- बान्धवः ॥
मन्त्रे स्म हितमा॑ख्यामि,
न करोमि तवा प्रियम्. ॥ ३६ ॥
ऊर्ध्वमित्यादि - मुहूर्तादूध्वं उपरि अहं म्रिये मरिष्यामि । क्षतबान्धव-
त्वात् विह्वलः सन् । अनेन मरणस्य निमित्तभूतं प्राप्तकालं लोडर्थं दर्शयति ।
तेन २७८८ । लिङ् चोर्ध्वमौहूर्तिके ।३।३।९। इति लोडर्थलक्षणे भविष्यति
लट् । लोडश्च प्रैषादिकः । '२५३८। त्रियतेर्लुङ्गलिङोश्च । १॥३।६१।' इति चका-
रात् शितश्चात्मनेपदम् । अन्यच्च मन्त्रे मन्त्रविषये हितमाख्यामि स्म आख्या-
तवानहम् । '२७७९। अपरोक्षे च ।३।२।११९।' इति लट् । ममाप्रियं मा कार्षी-
रिति पृष्टः सन्नहं न करोमि तवाप्रियमिति न कृतवानस्मि । '२७८२ । नन्वो-
विभाषा । ३ ।२। १२११' इति पृष्टप्रतिवचने लट् ॥
युग्मम्--३७--३८
१४९५ - अन्तः पुराणि पौलस्त्यं पौराश् च भृश- दुखिताः ॥
संश्रुत्य स्माsभिधावन्ति हतं रामेण संयुगे ॥३७॥
☐
अन्तःपुराणीत्यादि - अनन्तरं पौलस्त्यं रामेण हतं संश्रुत्य अन्तःपुराणि
पौराश्च दुःखिताः अभिधावन्ति स्म ढौकन्ते स्म '२७७८। लद मे । ३।२। ११८ । '
इति भूतानद्यतनपरोक्षे लट् ॥
१४९६ - मूर्धजान् स्म विलुञ्चन्ति,
क्रोशन्ति स्मा ऽतिविह्वलम् ॥
अधीयन्त्युपकाराणां
मुहुर् भर्तुः प्रमन्यु च ॥ ३८ ॥