This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषण-प्रलापो' नामाष्टादशः सर्गः - ४४३
 
नेदानीमित्यादि - इदानीं त्वय्येवंभूते शक्र यक्षेन्द्रौ न विभीतः न भयं
कुरुतः । '२४९२। भियोऽन्यतरस्याम् ।६।४।११५ ।' इति इत्वाभावपक्षे रूपम् ।
न दरिद्वितः दरिद्रौ न भवतः । '२४८२ । इद्दरिद्रस्य । ६।४।११४ । ' इति हलादौ
क्लिति सार्वधातुक इत् । हप्तौ न गवं जहितः परित्यजतः '२४९८ । जहातेश्च
।६।४।११६।' इतीत्वम् । न क्लिनीतः क्लेशं नानुभवतः । '२४९७ । ई हल्यघोः
।६।४।११३।' इतीत्वम् ॥
 

 
१४९० - त्वया ऽपि नाम रहिताः
कार्याणि तनुमो वयम्, ॥
कुर्मश च जीविते बुद्धिं,
 
धिक् तृष्णां कृत-नाशिनीम्. ॥ ३२ ॥
 
त्वयेत्यादि - यद्वयं त्वया विना कार्याणि राज्याङ्गानि तनुमः प्रसारयि-
प्यामः । जीविते च बुद्धिं कुर्मः । तदिमां कार्ये जीविते च तृष्णां कृतनाशिनीं
धिक् । '२७९९। गर्हायां लडपि-जात्दोः । ३।३।१४२ ।' इति भविष्यति लट् ॥
१४९१ - तृणेह्नि देहमात्मीयं,
 
त्वं वाचं न ददासि चेत्, ॥
द्राधयन्ति हि मे शोकं
 
स्मर्यमाणा गुणास् तव ॥ ३३ ॥
 
तृणेह्मीत्यादि - मम प्रतिवचनं न ददासि चेत् यदि त्वं तर्हि आत्मीयं
देहं तृणेह्नि हन्मि । '२५४५॥ तृणह इम् ॥३।१२।' । हि यस्मात् स्मर्यमाणा-
स्तव गुणाः मम शोकं द्राघयन्ति दीर्घं कुर्वन्ति । णाविष्टवद्भावेन (२०१६ ।
प्रिय-स्थिर-1६।४।१५७।' इत्यादिना दीर्घशव्दस्य द्वाधादेशः ॥
 
१४९२ – उन्मुच्य स्रजर्मात्मीयां
 
मां जयति को हसन्, ॥
नेदयत्यसनं को मे,
 
कोहि मे वदति प्रियम् ॥ ३४ ॥
 
उन्मुच्येत्यादि - आत्मीयां स्रजं मालामुन्मुच्यापनीय देहात् हसन् परि-
तोषात् को मां जयति स्रग्विणं करोति । णाविष्टवद्भावात् '२०२०। विन्मतो -
र्लुक् ।५।३।६५।' इति विनो लुक् । '२०१०। प्रकृत्यैकाच् ॥६।४।१६३।' इति
टिलोपाभावः । को वा ममासनं नेदयति अन्तिकं करोति । अत्रापि णौ इष्टव-
द्भावात् '२०२४। अन्तिकबादयोर्नेदसाधौ । ५।३।६३ ।' इति अन्तिकशब्दस्य
नेदादेशः । कर्हि कदा को मे प्रियं वदति वदिष्यति । '२७८४ । विभाषा कढ़ा-
कर्योः ॥३।३।५।' इति भविष्यति लट् ॥