2026-03-05 04:33:14 by ambuda-bot
This page has not been fully proofread.
४४२ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे पञ्चमो वर्गः,
त्यजन्ति । विपद्गतं च त्वां हसन्ति । क्षुद्राः अल्पकायाः क्षोदयन्तीव क्षुद्रमि
वाचक्षत इति । भुवने यो हि न्यक्कृतत्रिलोकः स कथं क्षुद्र उच्यते । '२०१५।
स्थूल-दूर-।६।४।१५६।' इत्यादिना णौ यणादिपरलोपः पूर्वस्य च गुणः ॥
१४८५ - शमं शमं नभस्वन्तः पुनन्ति परितो जगत्, ॥
"
उज्जिहीषे महाराज ! त्वं प्रशान्तो न किं पुनः ॥२७॥
शममित्यादि - नभस्वन्तो वायवः शमं शमं शान्त्वा शान्त्वा । '३३४३।
आभीक्ष्ण्ये णमुल् ॥३।४।२२।' । '२७६३ । नोदात्त - । ७।३।३४।' इति वृद्धिप्रति-
पेधः । आभीक्ष्ण्ये द्वे भवतः । परितः सर्वतो जगत् पुनन्ति पवित्रयन्ति ।
प्रशान्ता अपि पुनर्भूत्वा जगत् पुनन्ति । हे महाराज ! त्वं पुनः प्रशान्तोऽपि
किं नोजिहीपे नोत्तिष्ठसि । 'ओहाङ् गतौ' इत्यभ्यासस्य ' २४९६। भृञामित्
।७।४।७६।'। '२४९७] ई हल्यघोः - १६।११३।' इतीत्वम् ॥
१४८६ - प्रोर्णोति शोकस चित्तं मे,
सत्वं संशाम्यतीव मे ॥
प्रमार्ष्टि दुःखमालोकं,
मुञ्चाम्यूर्जं त्वया विना ॥ २८ ॥
प्रोणतीत्यादि - हे महाराज ! त्वया विना शोको मम चित्तं प्रोणति
आच्छादयति । सत्वं अवष्टम्भः संशाम्यतीव अपगच्छतीव । मां त्यजतीत्यर्थः ।
दुःखं च कर्तृ आलोकं प्रज्ञानं प्रमार्ष्टि अपनयति । अतस्त्वया विना ऊर्ज बलं
मुञ्चामि । अलसो भवामीत्यर्थः ॥
१४८७ - केन संविद्रते- ना ऽन्यस् त्वत्तो बान्धव-वत्सलः, ॥
विरौमि शून्ये, प्रोणौमि कथं मन्यु- समुद्भवम् ॥२९॥
केनेत्यादि - त्वत्तोऽन्यो बान्धववत्सलो नेति के न संविद्रते न जानते ।
'२६९९। समो गमि -।१।३।२९।' इति तङ् । '२७०१ । वेत्तेर्विभाषा । ७।१।७।
इति रुद । बन्धुरेव बान्धवः । प्रज्ञादित्वादण् । अतोऽहं शून्ये वन्धुविरहिते
विरौमि फूत्करोमि । कथं केन प्रकारेण मन्युसमुद्भवं शोकोत्पादं प्रोणौमि
आच्छादयामि ॥
१४८८ - रोम्य॑नाथमा॑त्मानं वन्धुना रहितस् त्वया ॥
प्रमाणं नोंपकाराणाम॑वगच्छामि यस्य ते ॥ ३० ॥
रोदिमीत्यादि - त्वया बन्धुना रहितत्वादनाथोऽस्मीति आत्मानमेव
रोदिमि न त्वां कृतकार्यम् । यस्य ते उपकाराणां प्रमाणमियत्तां नावगच्छामि ॥
१४८९ - नैदानीं शक्र - यक्षेन्द्रौ विभीतो, न दरिद्रितः, ॥
न गर्व जहितो दृप्तौ न क्लिनीतो दशाssनन ! ॥ ३१ ॥