This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'विभीषण- प्रलापो' नामाष्टादशः सर्गः - ४४१
 
दंश-सञ्ज-स्वआं शपि ।६।४।२५।' इत्यनुनासिकलोपः । हरिर्विष्णुः श्रियं गोपा-
यति आत्मन्येव कृत्वा रक्षति । देववन्द्यः प्रमोदन्ते हृप्यन्ति । घनोदयाश्चित्री-
यन्ते नानारूपेणाद्भुतायन्ते । सृते स्वयीति सर्वत्र योज्यम् ॥
 
विशेषकम् २४, २५, २६—
 
१४८२ – बिभ्रत्य॑स्त्राणि साऽमर्षा
रण - काम्यन्ति चा ऽमराः, ॥
चकासति च, मांसाऽदां
 
तथा रन्ध्रेषु जाग्रति. ॥ २४ ॥
 
बिभ्रतीत्यादि - अमराः सामर्पाः सकोपाः अस्त्राणि विभ्रति धारयन्ति ।
रणकाम्यन्ति च आत्मनो रणमिच्छन्ति । आत्मेच्छायां काम्यच् । चकासति
च दीप्यन्ते च । जक्षित्यादित्वादभ्यस्तसंज्ञायां झेरदादेशः । तथा मांसादां
राक्षसानाम् । '२९७७१ अदोऽनन्ने ।३।२।६८।' इति विट् । रन्ध्रेषु व्यसनेषु
जाग्रति सावधाना भवन्ति ॥
 
१४८३ - चञ्चूर्यन्ते ऽभितो लङ्कामुस्मांश् चा ऽप्यतिशेरते ॥
 
भूमयन्ति स्व-सामर्थ्य, कीर्ति नः कनयन्ति च ॥२५॥
 
चञ्चूर्यन्त इत्यादि — लङ्कामभितः बाह्यतोऽभ्यन्तरतश्च । '१९५६ । पर्य-
भिभ्यां च ।५।३।९।' इति सर्वोभयार्थे तसिः । चञ्चूर्यन्ते गर्हितं चरन्ति ।
'२६३५॥ लुप-सद-।३।१।२४।' इति भावगर्हायां यङ् । '२६३६। चर-फलोश्च
।७।४।८७।' इत्यभ्यासस्य नुकू । '२६३७। उत्परस्यातः । ७।४।८८।' इत्युत्वम् ।
अस्मांश्चापि अतिशेरते अतिशयिता भवन्ति च । स्वसामर्थ्यं भूमयन्ति वर्ध-
यन्ति । बहूनां भाव इति '१७८४ । पृथ्वादिभ्य इमनिच् । ५।१।१२२।' । '२०.१७
बहोर्लोपो भू च बहोः । ६।४।१५८।' इति बहोर्भूरादेशः । इमनिजादिलोपश्च ।
भूमानं कुर्वन्तीति णिचि णाविष्टवत्प्रातिपदिकस्येतीष्टवद्भावात् टिलोपग्रणादि-
परलोपः । विन्मतोर्लुगर्थमिति वचनाद्वा टिलोपः । किंच नोऽस्माकं कीर्ति कन-
यन्ति अल्पां कुर्वन्ति । अमरा इति योज्यम् । अल्पां कुर्वन्तीति णिचि णाविष्ट -
वद्भावाद् '२०१९। युवा-ल्पयोः कनन्यतरस्याम् । ५।३।६४ ।' इति कनादेशः ॥
१४८४ - दिशो व्यश्नुवते दृप्तास्,
 
त्वत्-कृतां जहति स्थितिम्, ॥
क्षोदयन्ति च नः क्षुद्रा,
 
हसन्ति त्वां विपद् - गतम्. ॥ २६ ॥
 
दिश इत्यादि - हप्ताः सन्तः दिशो व्यभुवते व्यामुवन्ति । स्थितिं व्यवस्थां
.त्वत्कृताम् । ११३७३। प्रत्ययोत्तरपदयोश्च । ७।२।९८।' इति त्वदादेशः । जहति