2026-03-05 04:33:14 by ambuda-bot
This page has not been fully proofread.
४४० भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे पञ्चमो वर्गः,
।३।४।८३।' सिपस्थादेशः । अपरस्य '६४५० । ब्रुवः पञ्चानाम् ।३।४।८४।' इति
तिपो णलादेशः । यद्यस्मात्त्वं क्रुद्धः सन् मां संसदि सभायां निराकृत्य पाद-
प्रहारेण पुरा पूर्वं त्यजसि त्यक्तवानसि । '२७८२ । पुरि लुङ् चास्मे ।३।२।१२२ ।'
इति चकाराल्लट् ॥
१४७७–हविर् जक्षिति निःशङ्को मखेषु म॒घवान॑सौ ॥
प्रवाति स्व॒च्छया वायुरु॑द्गच्छति च भास्करः. ॥१९॥
हविरित्यादि - असौ मघवान् इन्द्रः मखेषु यज्ञेषु हविराज्यादिकमधुना .
जक्षिति भक्षयति । '२४७४। रुदादिभ्यः ॥२।७६।' इतीट् । वायुश्च स्वेच्छया
प्रवाति गच्छति । 'पवते' इति पाठान्तरं पवित्रीकरोतीत्यर्थः । भास्करश्च यथे-.
टमुद्गच्छति उदेति ॥
१४७८ - धनानामीशते यक्षा, यमो दाम्यति राक्षसान् ॥
"
तनोति वरुणः पाशमि॑न्दुनदीयते ऽधुना ॥ २० ॥
धनानामित्यादि - यक्षाः कुबेरादयः धनानामीशते [ प्रभवन्ते ] 'स्वाम्यं
लभन्ते' इत्यर्थः । '१०८९। ईश ऐश्वर्ये' । यमोऽपि राक्षसान् दाम्यति वशी-
करोति । वरुणः पाशं तनोति विस्तारयति । इन्दुनोदीयतेऽधुना । भावे लट् ।
अधुनेति सर्वत्र योज्यम् । अणुनेति पाठान्तरं असंपूर्णत्वात् ॥
१४७९-शाम्यत्यृ॒तु-समाहारस्, तपस्यन्ति वनौकसः, ॥
नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति ना ऽमराः २१
शाम्यतीत्यादि - ऋतूनां समाहारः सम्भूयावस्थानं शाम्यति अपैति ।
वनौकसो वनवासिनो मुनयः तपस्यन्ति । तपश्चरन्ति । '६६६१। कर्मणो
रोमन्थ–।३।१।१५।' इत्यादिना क्यङ् । तपसः परस्मैपदं च । ते त्वद्वन्धूनमरा
नो नमस्यन्ति न प्रणमन्ति । न वरिवस्यन्ति । नाप्रतिषेधेन परिचरन्ति ।
'२६७५। नमो वरिवश्चित्रङः क्यच् । ३ । १।१९॥ ॥
१४८० - श्रीर् निष्कुष्यति लङ्कायां विरज्यन्ति समृद्धयः, ॥
न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः. २२
श्रीरित्यादि - लङ्कायां पुर्यां अधुना श्रीर्निष्कुप्यति । 'कुष रोपे' ।२७७२।
कुपि-रजोः प्राचां श्यन् परस्मैपदं च ।३।१।१०।' । समृद्धयश्च विरज्यन्ति अप-
यान्ति । सर्वथा तद्वस्तु न वेद न वेद्मि । '२४६४। विदो लटो वा । ३।४८३२'
इति मिपो ल । यस्य त्वयि मृते न विपर्ययः नान्यथाभावः ॥
१४८१ - शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम्, ॥
देव- वन्द्यः प्रमोदन्ते, चित्रीयन्ते घनदयाः ॥२३॥
: शक्तिमित्यादि - शक्रः शक्तिं प्रहरणमधुना संस्वजते गृह्णाति । '२३९६