2026-03-05 04:33:14 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'विभीषण- प्रलापो' नामाष्टादशः सर्गः - ४३९:
।६।१।८९।' इति वृद्धिः । अभ्यमीति पाठान्तरं तदयुक्तं छान्दसत्वात् । यतः
यमो बहुलं छन्दसि हलादावनन्तरे सार्वधातुके '२४४४ । तु-रु-स्तु-शम्यमः
सार्वधातुके ।७।३।९५॥ इतीट् ॥
१४७३ - त्वम॑जानन्नदं राजन्नीडिषे स्म स्व-विक्रमम्, ॥
दातुं नैच्छसि सीतां स्म, विषयाणां च नैशिषे ॥१५॥
त्वमित्यादि - हे राजन् ! त्वमिदं यथोदितमजानन् स्वविक्रममीडिपे स्मं
स्तुतवानसि । '२४४०। ईड- जनोर्ध्वे च । ७।२।७८ ' इति चकारात् सेशब्द-
स्यापीद । एवं च कृत्वा त्वं सीतां दातुं नेच्छसि स्म नेष्टवानसि । विषयाणां
शब्दादीनां नेशिपे स्म विपयान्न जितवानसि । '२४३९ । ईशः से १७२७७१
इतीट् । '६१३ । अधीगर्थ - । २।३।५२१' इति कर्मणि पष्ठी । सर्वत्र '२७७९ ।
अपरोक्षे च ।३।२। ११९ ।' इति लट् ॥
१४७४ –मन्त्रे
जातु॒ वदन्त्य॑ज्ञास्, त्वं तान॑य॑नु॒मन्यसे ॥
कथं नाम भवांस् तत्र ना ऽवैति हितमा॑त्मनः ॥१६॥
मन्त्र इत्यादि — मन्त्रविषये अपण्डिताः मूर्खाः सन्तः जातु कदाचिदपि
वदन्ति गर्हितमेतत् । तानपि त्वमनुमन्यसे अनुमतवान् । इदमप्यतिगर्हितम् ।
'२७९९। गर्हायां लडपिजात्वोः । ३ । ३।१४२ ।' इति अपिजात्वोरुपपदयोः काल-
सामान्ये लट् । कथमेतत् न्याय्यं यत्तत्र भवान् रावणः विद्वानपि नात्मनो
हितमवैति न विदितवान् । '२८००। विभाषा कथमि लिङ् च । ३।३।१४३ । '
इति कथंशब्द उपपदे चकारात् गर्हायां लट् । तत्र भवानिति '१९६३ । इत-
राभ्योऽपि दृश्यन्ते ।५।३ । १४ ।' इति भवदादियोगे प्रथमान्तात् त्रल्प्रत्ययः ॥
१४७५ - अ- पृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम्, ॥
'न करोमीति पौलस्त्य ! तदा मोहात् त्वमुक्तवान् . १७
अपृष्ट इत्यादि - किमस्मिन् काले युज्यत इति मन्त्रे मातामहो माल्यंवान्
अपृष्टः सन् हितं नु ब्रवीति । हे पौलस्त्य ! त्वं पुनर्हितमकार्षीरिति माल्यवता
पृष्टं तदा तस्मिन् काले न करोमीति मोहादज्ञानादुक्तवाम् । अत्र नुशब्दे नशब्दे
चोपपदे । '२७८० ननौ पृष्टप्रतिवचने । ३ ।२। १२० ।' इति भूते धात्वर्थे '२७८१ ॥
नन्वोर्विभाषा ।३।२।१२१।' इति विभाषा लट् ॥
१४७६ - त्वं स्म वेत्थ महाराज ! यत् स्माऽऽह न विभीषणः ॥
.
पुरा त्यजति यत् क्रुद्धो मां निराकृत्य संसदि ॥ १८॥
त्वमित्यादि - हे महाराज ! विभीषणो यदाह स्म उक्तवान् तत्त्वं न वेत्थ
स्म न विदितवानसि । किमेतेन हितमुक्तं न वेति । उभयत्र '२७७९। अप-
रोक्षे च । ३ ।२। ११९१' इति लट् । तत्र पूर्वस्मिन्: '२४६४ । विदो लटो वा