This page has not been fully proofread.

४३८ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे पञ्चमो वर्गः,
१४६८-समाश्वसिमि केना sहं, कथं प्राणिमि दुर्गतः ॥
 
"
 
लोक-त्रय - पतिर् भ्राता यस्य मे स्वपिति क्षितौ ॥१०॥
समाश्वसिमीत्यादि -यस्य मम भ्राता लोकत्रयपतिः क्षितौ स्वपिति
सोऽहं केनोपायेन समाश्वसिमि शोकं त्यजामि । '३४७४ । रुदादिभ्यः । ७२।७६ ।'
इतीट् । दुर्गतो दुःखितः कथं केन प्रकारेण प्राणिमि जीवामि ॥
१४६९-अहो जागर्ति कृच्छ्रेषु दैवं, यद् वल - भिज्-जितः ॥
 
व्यन्ति भूमौ क्किद्यन्ति बान्धवा मे स्वपन्ति च. ११
 
अहो इत्यादि - अहो इति विस्मये । कृच्छ्रेषु दुःखेषु देवं जागर्ति अब-
हितमित्यर्थः । नित्यं दुःखोत्पादनात् । यद्यस्मात्कारणादपरमपि मम बान्धवाःः
बलभिजितः बलं भिनत्तीति बलभिदिन्द्रः तं जयन्तीति क्विप् । भूमौ लुट्य-
न्ति । 'रुठ लुठ लोटने' दिवादौ । तथा क्लिद्यन्ति पूयन्ति । स्वपन्ति दीर्घनिद्रां
प्रवेशिताः ॥
 
१४७० - शिवाः कुष्णन्ति मांसानि
 
भूमिः पिवति शोणितम्, ॥
दशग्रीव - सनाभीनां .
 
समदन्त्या॑मिषं खगाः, ॥ १२ ॥
 
शिवा इत्यादि - दशग्रीवसनाभीनां दशग्रीवेण तुल्यगोत्राणाम् । '१०१३।
ज्योतिर्जनपद-।६।४।८५।' इत्यादिना समानस्य सभावः । मांसानि शिवाः
शृगालाः कुष्णन्ति ं। '१६१६ । कुप निष्कर्षे' । भूमिः शोणितं पिवति । खगाः
पक्षिणः मांसशोणितव्यतिरिक्तं वसामज्जादिकं समदन्ति भक्षयन्ति ॥
१४७१ - येन पूतक्रतोर् मूर्ध्नि स्थीयते स्म महाऽऽहवे, ॥
 
तस्याऽर्पीन्द्रजितो दैवाद् ध्वांक्षैः शिरसि लीयते. १३
येनेत्यादि - येनेन्द्रजिता पूतक्रतोरिन्द्रस्य महाहवे महासमरे मूर्ध्नि अग्रतः
स्थीयते स्म स्थितम् । '२७७९ । अपरोक्षे च ।३।२।११९ ।' इति लट् । विभीष-
णस्य ह्मपरोक्षभूतानद्यतनत्वादर्थस्य । तस्यापीन्द्रजितः शिरसि दैवाद्वामाद्धेतु-
भूतात् ध्वांक्षैः काकैर्लीयते । वर्तमान एव भावे लट् ॥
 
१४७२ - स्वर्भानुर भास्करं ग्रस्तं निष्ठीवति कृताऽह्निकः, ॥
 
अभ्युपैति पुनर् भूतिं राम-ग्रस्तो न कश्चन ॥१४॥
स्वर्भानुरित्यादि --स्वर्भानुः राहुः भास्करं ग्रस्तं प्रासीकृतं कृताह्निकः
कृताहारः निष्ठीवति स्वमुखान्निरस्यति । रामग्रस्तो रामाभिभूतः पुनर्भूतिं
नाभ्युपैति कञ्चन कश्चिदपि भूतिं नाभ्युपैति प्राप्नोति । '७३ । एत्येधत्यूसु