This page has not been fully proofread.

तथा लक्ष्य रूपे कथानके 'विभीषण- प्रलापो' 'नामाष्टादशः सर्गः - ४३७:
भजन्तीत्यादि - अन्यच्च ये स्वामिनो मदादवलेपात् न्यायवादिनां मात्य -
चत्प्रभृतीनां मते नावतिष्ठन्ते । ' २६८९ । समव-प्र-विभ्यः स्थः । १।३।२२।'
इति तङ् । ते पुरुषाः विपदस्तूर्णं भजन्ति अवसादं सेवन्ते । भजिरुभयपदी ।
सम्पदश्चातिक्रामन्ति त्यजन्ति ॥
 
१४६३ - अ-पथ्यमा॑य॒तौ लोभादामनन्त्य॑नुजीविनः ॥
 
प्रियं, शृणोति यस् तेभ्यस्, तमृ॑च्छन्ति न सम्पदः. ५
अपथ्यमित्यादि - प्रायेण ह्यनुजीविनः प्रहस्तादिसदृशाः । आयतावागा-
मिनि काले वृद्धावस्थायामपथ्यमनिष्टं फलं लोभेन तृष्णया वा प्रियमामनन्ति
उपदिशन्ति 'साधु इदम्' इति । तेभ्यो यः शृणोति तं सम्पदो न ऋच्छन्ति ।
अर्ते ऋच्छादेशः ॥
 
१४६४ - प्राज्ञास् तेजस्विनः सम्यक् पश्यन्ति च, वदन्ति च ॥
 
तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति च ॥६॥
प्राज्ञा इत्यादि - ये प्राज्ञाः तेजस्विनः अस्मद्विधाः सम्यगविपरीतं शास्त्र-
चक्षुपा पश्यन्ति वदन्ति च सम्यक् । हे महाराज ! अवज्ञातास्ते तिरस्कृताः क्लाम्य-
न्ति खिद्यन्ते विरमन्ति च विमुखा भवन्ति । 'तढ़वज्ञानफलमेतत्' इति भावः ॥
१४६५ - लेढि भेषज - वन् नित्यं यः पथ्यानि कटून्यपि ॥
 
"
 
तदर्थं सेवते चा ssप्तान्, कदाचिन्न स सीदति ॥७॥
लेढीत्यादि — यस्तु स्वामी आदौ कटून्यपि पथ्यानि परिणामसुखानि
भेषजवदौपधमिव नित्यं लेढि श्रोत्रेन्द्रियेणानुभवति तदर्थं चाप्तानविसंवादिनः
सेवते स कदाचिन्नावसीदति इह च परत्र चावसन्नो न भवति ॥
१४६६ – सर्वस्य जायते मानः, स्व-हिताच् च प्रमाद्यति ॥
 
वृद्धौ भजसि चाs पथ्यं नरो, येन विनश्यति ॥८॥
 
सर्वस्येत्यादि – प्रायेण वृद्धौ सत्यां सर्वो जनो मानी सञ्जायते वृद्धेश्चित्त-
'विकारित्वात् । स्वहिताच्च प्रमाद्यति हिताद्रष्टो भवति । अपथ्यं च भजति
सेवते । येनापथ्येन सेवितेन नरो विनश्यति ॥
 
१४६७- द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्निह्यति कस्यचित् ॥
 
.वैरायते महद्भिश च शीयते वृद्धिमानपि ॥ ९ ॥
द्वेष्टीत्यादि - यस्माद्वृद्धौ सत्यां प्रायेण गुणेभ्यः वृद्धसेवित्वादिभ्यः प्रभु-
द्वेष्टि । '५७५ ॥ क्रुध - द्रुह - 1१18।३७।' इति सम्प्रदानसंज्ञा । नं च कस्यचित्
स्निह्यति प्रीयते । महद्भिश्च सह वैरायते वैरं करोति '२६७३ । शब्द - वैर-
।३।१।१७।' इति क्यङ् । तस्मात्कारणात् वृद्धिमानपि शीयते विनश्यति । शदेः
शिति शीयादेशः । '२३६२। शदेः शितः । १।३।६०।' इति तङ् ॥