2026-03-05 04:33:13 by ambuda-bot
This page has not been fully proofread.
४३६ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे पञ्चमो वर्गः,
दमाबध्नन् सेवितवन्ति । सुरसमितिः सुरसमूहः नृपं जितारिं प्राशंसत् स्तुत-
वती । अप्येषां अन्यजनानां दिगन्ताः रावणवधाद्विगतपरिप्लवा निरुपद्रवा जाता
इत्यर्थात् । पौलस्त्यो विभीषणः विपन्नबन्धुः मृतभ्रातृकः शुचं शोकमजुपत्
सेवितवान् । जुषिस्तुदादावनुदात्तेत् ॥
इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये-
चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थः परिच्छेदः (वर्गः),
तथा लक्ष्यरूपे कथानके 'रावण वधो' नाम-'
सप्तदशः सर्गः ॥ १७ ॥
अष्टादशः सर्गः--
इतः प्रभृति लटमधिकृत्य लङ्गिलसितमाह — तत्र वर्तमाने लट् । ततोऽन्य-
त्रापि दर्शयिष्यति--
१४५९ - व्यश्रुते स्म ततः शोको नाभि-सम्बन्ध-सम्भवः ॥
विभीषणम॒साच्चै रोदिति स्म दशाऽऽननम् ॥१॥
व्यश्रुत इत्यादि - ततो वधादनन्तरं शोको विभीषणं व्यञ्जते स्म व्याप्तवान् ।
'२७७८। लट् स्मे-।३।२।११८।' इति भूतानद्यतनपरोक्षे लट् । नाभिसम्बन्धेन
एकोदरसम्बन्धेन सम्भवो यस्य शोकस्य । असौ प्रवृद्धशोको विभीषणः उच्चैर्मह-
ता शब्देन दशाननं नामग्राहं रोदिति स्म रुदितवान् ॥
• तदेव दर्शयन्नाह -
१४६० - 'भूमौ शेते दश - ग्रीवो महार्ह - शयनोचितः ॥
नैक्षते विह्वलं मां च न मे वाचं प्रयच्छति ॥२॥
भूमावित्यादि - महार्हशयने उचितोः य स भूमौ शेते । शोकाद्विह्वलं च
मां नेक्षते । मे वाचं प्रतिवचनं न प्रयच्छति न ददाति । '९९६ । दाण् दाने' ।
'२३६०। पा-घ्रा ।७।३।७८।' इत्यादिना यच्छादेशः ॥
१४६१ - विपाकोऽयं दश-ग्रीव ! संदृष्टो ऽनागतो मया, ॥
त्वं तेना ऽभिहितः पथ्यं किं कोपं न नियच्छसि ॥३॥
विपाक इत्यादि - हे दशग्रीव ! अयं विपाको मरणलक्षणं फलं अनागतो
भविष्यन्नेव मया संदृष्टः सम्यगुपलब्धः । इदानीं पश्यसि तेन कारणेन योऽभि•
हितोऽसि 'सीतां मुञ्च' इति । अतः किमिति कोपं न नियच्छसि नापनयसि ।
नास्त्येव मम दोषः । निपूर्वो यमिरपनयने वर्तते ॥
१४६२-भजन्ति विपदस् तूर्णमतिक्रामन्ति सम्पदः ॥
तान्, मदान् नाऽवतिष्ठन्ते ये मते न्यायवादिनाम् ४