This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः– ४३५
 
कम्पिताः । शक्र इन्द्रः संत्रासमविभः भृतवान् । पततां शिरसां पुनः पुनरुदयात् ।
मायया विमोह्यायं राममजैपीदिति । विभर्तेः लौ द्विर्वचनम् । '२५९६। भृजा-
मित् ।७।४।७६।' धातोर्गुणः । पररूपत्वमिति लोपविसर्जनीयौ । प्रेङ्खत् क्षुभि-
तश्च स शक्रः । उखेत्यादाविखिरिति पठ्यते । क्षितिश्च क्षुभिता चलिता ॥
१४५५ - ततो मातलिना शस्त्रम॑स्मंर्यत महीपतेः ॥
 
वधाय रावणस्यग्रं स्वयम्भूर् यर्दकल्पयत्. ॥१०९॥
तत इत्यादि - रावणस्य वधाय स्वयम्भूर्यदस्त्रमकल्पयत् कल्पितवान् ।
कृपेण गुणः । '२३५०। कृपो रो लः । ८।२। १८।' तदस्त्रं मातलिना अस्मर्यत
स्मारितम् । स्मरतेर्ण्यन्तात् कर्मणि लङ् । मित्वाद्धस्वत्वम् । महीपतेरिति
'६१३। अधीगर्थ - । २।३।५२।' इति पष्ठी ॥
 
कीदृशं तदित्याह-
 
१४५६ – नभस्वान् यस्य वाजेषु, फले तिग्मांशु - पावकौ ।
 
गुरुत्वं मेरु-सङ्काशं, देहः सूक्ष्मो वियन्मयः ॥ ११०॥
नभस्वानित्यादि - यस्य शस्त्रस्य वाजेषु [ पक्षेपु ] नभस्वान् वायुः सन्नि-
हितं फले [ शल्ये ] तिग्मांशुरादित्यः पावकश्च । यस्य गुरुत्वं मेरुवत् मेरोरिव ।
'दृढत्वं मेरुसङ्काशम्' इति पाठान्तरम् । तत्र मेरुस्थगौरवसदृशमित्यर्थः । सूक्ष्मो
देहो दिव्यचक्षुर्गम्यः वियन्मय आकाशस्वभावः ॥
 
१४५७ - राजितं गारुडैः पक्षैर् विश्वेषां धाम तेजसाम् ॥
 
स्मृतं तद् रावणं भित्त्वा सुघोरं भुव्य॑शाययत्. १११
राजितमित्यादि-गारुडैः पक्ष राजितं शोभितम् । तेजसां विश्वेषां अनेक-
प्रकाराणां धाम स्थानम् । तदस्त्रं रामेण स्मृतं स्मृतिमागत्य सुघोरं रावणं भित्त्वा
भुवि अशाययत् शायितवत् । रावणस्योदरं भित्त्वा भूमौ पातितवदित्यर्थः ॥
१४५८- आबध्नन् कपि-वदनानि संप्रसादं,
 
प्राशंसत् सुर-समितिर् नृपं जिता ऽरिम्, ॥
अन्येषां विगत-परिप्लवा दिगन्ताः,
पौलस्त्योऽजुषत शुचं विपन्न वन्धुः ॥ ११२ ॥
 
इति भट्टिकाव्ये तिङन्तकाण्डे लङ्-विलसितो नाम
सप्तदशः सर्गः ॥ १७ ॥
 
आवघ्नन्नित्यादि - तस्मिन् हते कपिवदनानि कर्तृभूतानि तोपात् संप्रसा-
 
१–'अस्मार्यत महीपतिः' इति पाठान्तरम् । २ - ' ८५३१ पक्षो वाजस्त्रिषूत्तरे ।'
इत्यमरसिंहः । ३ – प्रहर्षिणीवृत्तम्- 'नौजौगस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् । .
 
-