2026-03-05 04:33:12 by ambuda-bot
This page has not been fully proofread.
४३४ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
राक्षस इत्यादि - राक्षसो रावणः सूतमतर्जयत् भसितवान् । 'हा पाप !
किं शत्रुसमीपाद्रथं पराङ्मुखयसि' इति । इत्थं संतर्जितः सूतः पुनरपि रथमढौ-
-कयत् ढौकितवान् । रामसमीपमित्यर्थात् । उभौ रामरावणौ बाणान्निरास्येतां
क्षिप्तवन्तौ । 'उपसर्गादस्यत्यूह्मोर्चा' इति तङ् । धुर्यानश्वानविध्यतां ताडितवन्तौ ॥
१४५० - उ॒भाव॑कृ॒न्ततां केतून॒व्यथैतामुभौ न तौ ॥
ll
अदीप्येमुभौ धृष्णू, प्रायुञ्जातां च नैपुणम्॥१०४॥
उभावित्यादि - तावुभौ रामरावणौ केतून् ध्वजानकृन्ततां छिन्नवन्तौ
तावुभौ नाव्यथेतां न व्यथितवन्तौ । उभावदीप्येतां शोभितवन्तौ । धृष्णू च
प्रगल्भौ नैपुणं कौशलं प्रायुञ्जतां प्रयुक्तवन्तौ ॥
१४५१–उभौ मायां व्यतायेतां वीरौ नाऽश्राम्यतामु॑भौ ।
मण्डलानि विचित्राणि क्षिप्रमा॑क्रामतामुभौ ॥१०५॥
उभौ मायामित्यादि - तावुभौ मायां व्यतायेतां विस्तारितवन्तौ । '५२३।
त।यृ सन्तानपालनयोः' भ्वादौ । उभौ वीरौ नाश्रामतां न श्रान्तौ । युध्यमानौ
'च तावुभौ मण्डलानि विचित्राणि मतिवैचित्र्यात् क्षिप्रमाक्रामतां भ्रान्तौ ।
"२३२१। वा भ्राश-।३।१।७० ।' इति शप् ॥
१४५२ - न च॒भाव॑प्य॑ल॒क्ष्येतां, यन्तारावा॑ह॒तामृ॑भौ ॥
स्यन्दनौ समपृच्येतामुभयोर् दीप्त-वाजिनौ ॥१०६॥
न चेत्यादि - तावुभौ नाप्यलक्ष्येतां प्रेक्षकैर्न ज्ञातौ । 'अयं रामः अयं च
रावणः' इति । कर्मणि लङ् । यन्तारौ सुतौ । कर्मपदमेतत् । उभौ परस्परस्या-
हतामाहतवन्तौ । '२४२८ । अनुदात्तोपदेश - । ६ । ४।३७।' इत्यादिनानुनासिक-
लोपः । स्यन्दनौ रथौ उभयोः रामरावणयोः दीप्तवाजिनौ चामरादिमण्डनात्
दीक्षा उज्ज्वला वाजिनो ययोः तयोः स्यन्दनौ समपृच्येतां संपृक्तौ । '१५५७१
'पृची सम्पर्के' । कर्मणि लङ् ॥
१४५३ - ततो मायामयान् मूर्ध्नो राक्षसो ऽप्रथयद्रणे ।
.
रामेणैकशतं तेषां प्रावृश्चयत शिलीमुखैः ॥ १०७ ॥
तत इत्यादि - ततोऽनन्तरं राक्षसः मायामयान् मायास्वभावान्मूर्भः शिरां-
सि अप्रथयत् प्रदर्शितवान् । 'प्रथ प्रख्याने' इति घटादौ । तेषां च शिरसामू एक-
शतं एकाधिकं शतं रामेण शिलीमुखैः शरैः प्रावृश्यत छिन्नम् । कर्मणि लङ् ॥
१४५४ - समक्षुभ्नन्नु॑दन्वन्तः, प्राकम्पन्त महीभृतः, ।
सन्त्रासम॑विभः शक्रः, Üखच्चे, क्षुभिता क्षितिः १०८
समक्षुन्नन्नित्यादि - छिन्नानां च पततां क्षोभादुदन्वन्तः सागराः समक्षु-
नन् सञ्चलिताः । ' १६१७। शुभ सञ्चलने' इति क्यादिः । महीभृतः प्राकम्पन्त