2026-03-05 04:33:12 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'रावण-वधी' नाम सप्तदशः सर्गः - ४३३
वान् । 'उपसर्गादस्यत्यूह्योर्वावचनम्' इति तङ् । तत्पाशुपतं नृपो रामः शक्रा-
स्त्रेणाजयत् जितवान् ॥
१४४५-ततः शत-सहस्रेण रामः प्रौणन् निशाचरम् ॥
बाणानामृ॑क्षिणोद् धुर्यान् सारथिं चाऽदुनोद् द्रुतम्.
तत इत्यादि - ततोऽनन्तरं रामः निशाचरं वाणानां शतसहस्रेण लक्षण
प्रौणत् छादितवान् । '२४४८। गुणोऽपृक्ते ।७।३।११। इति गुणः । द्रुतं धुर्यान-
श्वान् । '१६२८। धुरो यढकौ ।४।४।७७।' इति यत् । अक्षिणोत् हतवान् ।
सारथिं चादुनोत् उपतापितवान् ॥
१४४६–अदृश्यन्ता ऽनिमित्तानि,
प्राह्वलत् क्षिति-मण्डलम्, ॥
रावणः प्राहिणोच्छूलं,
शक्तिं चैन्द्रीं महीपतिः ॥ १०० ॥
अदृश्यन्तेत्यादि — रावणस्यानिमित्तानि अदृश्यन्त दृष्टानि । कर्मणि लङ् ।
क्षितिमण्डलं प्राह्वलत् । चलितम् । '६२। ह्वल चलने' । रावणश्चानिमित्तानि दृष्ट्वा
ब्रह्मदत्तशूलं प्राहिणोत् क्षिप्तवान् । महीपतिः स राम ऐन्द्रीं शक्तिं प्राहिणोत् ।
'१३३७। हि गतौ' स्वादिः ॥
१४४७–ताभ्याम॑न्योन्यमा॑साद्य समवाप्यत संशमः, ॥
लक्षण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः ॥ १०१ ॥
ताभ्यामित्यादि - ताभ्यां शूल- शक्तिभ्यामन्योन्यमासाद्य संश्लिष्य संशमः
संशमनम् । घञि '२७६३। नोदात्त - । ७।३।३४।' इति वृद्धिप्रतिषेधः । समवाप्यत
प्राप्तः । कर्मणि लङ् । अनन्तरं क्रुद्धो राक्षसः पत्रिणां शराणां लक्षण शतसह-
स्त्रेण रामस्य वक्षः अस्तृणादिति वक्ष्यमाणेन सम्बन्धः । छादितवान् । '२५५८।
वादीनां ह्रस्वः । ७।३८० ॥
१४४८ - अस्तृणाधिकं रामस्ततो ऽदेवत सायकैः, ॥
अक्लाम्यद्रवणस्, तस्य सू॒तो रथम॑नाशयत् ॥ १०२ ॥
अस्तृणादित्यादि - ततोऽनन्तरं रामो राक्षसादधिकं अदेवत क्रीडितवान् ।
'५३३। तेवृदेवृदेवने' इति भ्वादावनुदात्तेत् । स तथा देवमानेनाहतो रावणः
अक्काम्यत् ग्लानिमुपगतः । तस्य तथाभूतस्य रावणस्य सूतः सारथिः स्वामिजी-
वितेच्छ्या रथमनाशयत् दूरं अपनीतवान् ॥
१४४९ - राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम्, ॥
निरास्येतामुभौ बाणानु॑भौ धुर्यान॑विध्यताम् ॥ १०३ ॥
३७