This page has not been fully proofread.

४३२ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
१४४०-स-स्फुरस्यौदकर्षच् च सौमित्रेः शक्तिमंग्र-जः, ॥
 
असिञ्चदषधीस् ता, याः समानीता हनूमता. ॥९४
सस्फुरस्येत्यादि—अग्रजश्च रामः सौमित्रः सस्फुरस्य उच्छ्वसतः शक्तिं
हृदयलग्नामुदकर्षत् उत्कृष्टवान् । याश्च हनूमतौषध्यः समानीतास्ता असिञ्चत्
बगदेशेषु क्षारितवान् ॥
 
१४४१ - उदजीवत् सुमित्रा -भूर्
 
"
 
भ्राता ssश्लिष्यत् तमा॑य॒तम् ॥
सम्यङ् मूर्धन्युपाशिङ्ग-
 
दुपृच्छच् च निरामयम् ॥ ९५ ॥
 
उदजीवदित्यादि - ततः सुमित्राभूर्लक्ष्मणः उदजीवत् प्रत्युज्जीवितवान् ।
तं च जीवितं भ्राता रामः आयतं दीर्घकालमाश्लिष्यत् आलिङ्गितवान् । मूर्धनि
च सम्यगुपाशिङ्घत् आघ्रातवान् । '१७० । शिघि आघ्राणे' । निरामयं च कुश-
`लमपृच्छत् पृष्टवान् । 'किं व्यपगता पीडा' इति ॥
 
१४४२ - ततः प्रोदसहन् सर्वे योद्धुमभ्यद्रवत् परान, ॥
 
अकृच्छ्रायत च प्राप्तो रथेना ऽन्येन रावणः ९६
 
तत इत्यादि - पुनः सर्व एव रामादयो योद्धुं प्रोदसहन् प्रोत्साहितवन्तः ।
'१९४६। सह मर्पणे' इति चौरादिकः परस्मैपदी । 'आटपाढा' इति णिज् न
भवति । नतु भौवादिकः तस्यात्मनेपदित्वात् । रावणश्चान्येन रथेन प्राप्तः सन्
परानुत्सहतोऽभ्यद्रवत् अभिमुखं गतवान् । अकृच्छ्रायत च कृच्छ्राय पापाय
कर्मणे क्रमितवान्। 'सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्षायामिति वक्तव्यम्'
इति क्यङ् । कण्वचिकीर्पा पापचिकीर्पा ॥
 
१४४३–'भूमि-ष्ठस्या ऽसमं युद्धं रथ- स्थेने 'ति मातलिः ॥
 
आहरद् रथम॑त्युग्रं स-शस्त्रं मघवा ऽऽज्ञया ॥९७॥
 
भूमिष्टस्येत्यादि - भूमिष्टस्य रामस्य । २९१८। अम्बाम्ब - १८३३।१७।
इति मूर्धन्यः। रथस्थेन रावणेन सह युद्धमसममतुल्यमयुक्तमिति निरूपितवतो
मघवतः इन्द्रस्य आज्ञया मातलिः सशस्त्रं रथमत्युग्रमाहरत् आनीतवान् ॥
१४४४ - सो ऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः ॥
 
निरास्यत दशाssस्यस्, तच्छेऽस्त्रेणजयन् नृपः ॥
सोऽध्यष्ठीयतेत्यादि - स रथो रामेणाध्यष्ठीयत अध्यासितः । कर्मणि लङ् ।
*२४६२। घु-मा-स्था-।६।४।६६ ।' इतीत्वम् । '२२७० उपसर्गात् ।८।३।६५।'
इत्यादिना पत्नमथवायेऽपि । ततोऽनन्तरं दशास्यः पाशुपतमस्त्रं निरास्यत क्षिप्त-