This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः - ४३१
 
ध्वस्तवान् । '१६०८। मन्थ विलोडने' क्र्यादिः । भूरिभिश्च प्रभूतैः शरैरतुदत्
व्यथितवान् ॥
 
१४३६ - अश्वान् विभीषणो ऽतुभ्नात्
 
'स्यन्दनं चाऽक्षिणोद् द्रुतम्, ॥
 
ना थुनाद् राक्षसो, भ्रातुः
 
शक्ति चौदवृहद् गुरुम् ॥ ९० ॥
 
अश्वानित्यादि - विभीपणश्चाश्वानतुनात् हतवान् ।' १६१८ । १९ । नभ तुभ
हिंसायाम्' । स्यन्दनं चाक्षिणोत् भग्नवान् । '१५६१। क्षिणु हिंसायाम्' तनादौ ।
: राक्षसो रावणः नाक्षुनात् न क्षोभं गतः । ' १६१७ । क्षुभ सञ्चलने' क्यादी
गृह्यते न दिवादौ । भ्रातुर्विभीषणस्य कृते गुरुं शक्तिमुदवृहत् उद्यतवान् ।
'१४३५। वृहू उद्यमने। तुदादौ । गुरुमिति '५० २। चोतो गुणवचनात् ।४।१।१४।
इति विकल्पेन ङीष् ॥
 
१४३७ - तामा॑पतन्तीं सौमित्रिस् त्रिधाऽकृन्ताच्छिलीमुखैः, ॥
 
अशब्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः ९१
तामित्यादि - तस्योपरि शक्तिमापतन्तीं सौमित्रिः शिलीमुखैखिधा त्रिप्र-
कारं अकृन्तत् छिन्नवान् । '१५२९ कृती छेदने' तुदादौ । यत्र प्रेक्षकाः पश्यन्तः
ते अशब्दायन्त शब्दं कृतवन्तः । 'वीर लक्ष्मण ! साधु कृतम्' इति । '२६७३ ।
शब्दवैर- ।३।१।२७१' इत्यादिना करोत्यर्थे क्यङ् । ततोऽनन्तरं निशाचरः क्रुद्धः
क्रोधं कृतवान् ॥
 
क्रुद्धो निशाचरः किं कृतवानित्याह-
 
१४३८- अष्ट- घण्टां महा-शक्तिमुदयच्छन् महत्तराम्, ॥
 
रामाऽनुजं तयाऽविध्यत्, स महीं व्यसुराश्रयत्. ९२
अष्टेत्यादि - अष्टौ घण्टा यस्यां महाशक्तौ तां शक्तिं प्रभावेण महत्तरां महतीं
अतिशयेन महाप्रमाणां उदयच्छत् उद्यतवान् । '२७४२ । समुदाभ्यो यमोऽग्रन्थे
।१।३।७५।' इति तङ् न भवति अकर्त्रभिप्रायत्वात् । तया च करणभूतया रामा-
नुजं लक्ष्मणमविध्यत् विद्धवान् । राममनुजातवानिति । '३०१०। अनौ कर्मणि
।३।२।१००।' इति डः । स च लक्ष्मणो विद्धः व्यसुः विगतप्राणः महीमाश्रयत्
आश्रितवान् । भुवि पतित इत्यर्थः ॥
 
१४३९–राघवस्याऽभृशायन्त सायकास्, तैरुपद्रुतः ॥
 
ततस् तूर्णं दशग्रीवो रण- क्ष्मां पर्यशेषयत्. ॥९३॥
राघवस्येत्यादि -- तस्मिन् पतिते राघवस्य सम्बन्धिनो बाणा: अभृशायन्त
अभृशा भृशा अभवन् शीघ्रगतयो जाता इत्यर्थः । ततस्तैरुपद्रुतो दशग्रीवः तूष्णींभू-
त्वा रणक्ष्मां रणभूमिं पर्थशेपयत् त्यक्तवान् ।' १९९४ । शिप असर्वोपयोगे' चुरादिः ।