This page has not been fully proofread.

४३० भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
व्योमेत्यादि —– वाणैव्यम प्राचिनुतां छादितवन्तौ । क्ष्मां पृथिवीं अक्षमाप-
यतां कम्पितवन्तौ । '५२०। क्ष्मायी विधूनने' । '२५७० । अर्ति-ही ।७।३।३६।
इत्यादिना पुक् । अन्योन्यमभित्तां विदारितवन्तौ । ' २४६९ । असोरलोपः
।६।४।१११।' चत्वेन च तकारः । तूर्णं शिक्षाः धनुषि कौशलानि मुहुरतनुतां
विस्तारितवन्तौ ॥
 
१४३२–समाधत्ता ऽऽसुरं शस्त्रं राक्षसः क्रूर - विक्रमः, ॥
 
तद॑क्षरन् महासर्पान् व्याघ्र - सिंहांश् च भीषणान्.८६
समाधत्तेत्यादि—राक्षसः असुरं शस्त्रं समाधत्त धनुष्यारोपितवान् । श्री
द्विर्वचनमभ्यासकार्यम् । '२४८३ । श्राभ्यस्तयोः । ६।४।१२।' इत्याकारलोपः ।
'२५० १। दुधस्तथोश्च । ८२।३८।' इति भष्भावः । ' २२८०। झपस्तथोर्धो ऽधः
।८।२।४०।' इति प्रतिपेधात् तकारस्य धत्वं न भवति । तत्संहितं सर्पादीन्
 
प्राक्षरत् मुक्तवत् ॥
 
१४३.३ - न्यषेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततः ॥
 
अदीव्यद् रौद्रम॑त्युग्रं, मुसऽऽर्द्यगलत् ततः॥८७॥
 
न्यषेधदित्यादि - तदासुरं शस्त्रं रामः पावकास्त्रेण न्यषेधत् निषिद्धवान् ।
ततो राक्षसो रौद्रमस्त्रमत्युग्रमदीव्यत् क्षिप्तवान् । अन्न दिविर्गतौ वर्तते । ततो
रौद्रात् क्षिप्तात् मुसलादिप्रहरणमगलत् निर्गतवत् । '५८७ । गल अदने' ।
अनेकार्थत्वाद्धातूनां गलिरत्र निर्गमे वर्तते ॥
 
१४३४ - गान्धर्वेण न्यविध्यत् तत्
क्षितीन्द्रो, ऽथ नराऽशनः ॥
सर्व मर्मसु काकुत्स्थ-
 
मौम्भत् तीक्ष्णैः शिलीमुखैः ॥ ८८ ॥
 
गान्धर्वेणेत्यादि - क्षितीन्द्रो रामः तद्रौद्रमस्त्रं गान्धर्वेणास्त्रेण न्यविध्यत्
ताडितवान् । अथ नराशनो राक्षसः शिलीमुखैर्वाणैः सर्वमर्मसु काकुत्स्थमौम्भव
पूरितवान् । '१४०७। उम्भ पूरणे' तुदादौ ॥
 
१४३५ - ततस् त्रिशिरसं तस्य
 
प्रावृश्चल लक्ष्मणो ध्वजम् ॥
 
.
 
"
 
अमनात् सारथिं चाऽऽशु,
 
भूरिभिश् चा ऽतुदच्छरैः ॥ ८९ ॥
 
ततं इत्यादि - ततो ऽनन्तरं लक्ष्मणस्तस्य रावणस्य ध्वजं त्रिशिरसं त्रिशूलाग्र
प्रावृश्चत् छिन्नवान् । '१३७६। ओवश्व च्छेदने' तुदादौ । सारथिं चामनात्