2026-03-05 04:33:11 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः -
४२९
तत इत्यादि - ततो दशग्रीवः क्रुद्धः वनौकसां वानराणां प्राणानकुष्णात् ।
कुष्टवान्। '१६१६। कुप निष्कर्पे' । रक्षांसि च राक्षसांश्चागोपायत् रक्षितवान् ।
.'२३०३। गुपू-धूप-।३।१।२८।' इत्यादिना आयप्रत्ययः । अरींश्च दिशोऽभाजयत्
- ग्रहितवान् ॥
१४२७ - आलोकयत् स काकुत्स्थमृ॑धृष्णोद्, घोरमध्वनत्, ॥
धनुर॑भ्रमयद् भीममु॑भीषयत विद्विषः ॥ ८१ ॥
आलोकयदित्यादि - स दशग्रीवः काकुत्स्थमालोकयत् दृष्टवान् । घोरद-
र्शनमधृष्णोत् धृष्टवान् । '१३५०। निष्टपा प्रागल्भ्ये' इति स्वादिः । ताननुसरन्
घोरमध्वनत् ध्वनितवान् । रामं मारयामीति भीमं धनुरभ्रमयत् भ्रमितवान् ।
'२५६८। मितां ह्रस्वः । ६।४।१२।' मान्तत्वान्मित्त्वम् । ये निद्विपो न पलायिताः
तानभीपयत त्रासितवान् । '२५९५ । भियो हेतु भये षुक् । ७।३।१०।' । '२५-
९४। भीस्म्योर्हेतुभये ।१।३।६८।' इति तङ् ॥
१४२८–आस्कन्दल् लक्ष्मणं वाणैरत्यक्रामच् च तं द्रुतम् ॥
.
रामम॑भ्यद्रवज् जिष्णु॑र॒स्कुनाच् चैषु-वृष्टिभिः ८२
आस्कन्ददित्यादि - जिष्णुर्जयशीलो दशग्रीवः लक्ष्मणं वाणैरास्कन्दत्
बाधितवान् । '१०४८। स्कन्दिर् गतिशोषणयोः' । तं च लक्ष्मणं द्रुतमत्यक्रामत्
आक्रान्तवान् । शिति दीर्घः । अतिक्रम्य च राममभ्यद्रवन् अभिमुखं गतवान् ।
'१०११। द्रु गतौ' । इषुवृष्टिभिरस्कुनात् छादितवान् । '१५७३। स्कुञ् आवरणे'
। '२५५५॥ स्तम्भु-स्तुम्भु - ।३।११८२१' इत्यादिना चकारात् श्रा ॥
१४२९–अपौहद् वाण-वर्षं तद् भल्लै रामो निराकुलः, ॥
"
प्रत्यस्कुनोद् दश-ग्रीवं शरैरा॑शी-विषा॒पमैः ॥ ८३ ॥
अपौहदित्यादि - तद्वाणवपं रामो निराकुलः सन् भल्लैरपोहत् अपनीत-
वान् । 'उपसर्गादस्यत्यूह्योर्वा' इति पक्षे तिप् । दशग्रीवं बाणैराशीविषोपमैः
दुःसहत्वात्प्रत्यस्कुनोत् । प्रतीपं छादितवान् अत्र भुप्रत्ययः ॥
१४३० - मण्डलान्याटतां चित्रमुच्छित्तां शस्त्र- संहतीः, ॥
जगद् विस्मापयेतां तौ, न च वीराव॑सीदताम् ॥ ८४ ॥
मण्डलानीत्यादि — चित्रमाश्चर्य मण्डलान्याटतां चक्रवद् भ्रान्तौ । शस्त्र-
संहतीः अच्छित्तां च्छिन्नवन्तौ । जगत् विस्मापयेतां विस्मापितवन्तौ । '२५९६।
'नित्यं स्मयतेः । ६।१।५७।' इत्यात्वम् । न च तौ वीरौ असीदतां अवसन्नौ ।
'२३६०। पा घ्रा ।७।३।७८।' इति सीदादेशः ॥
१४३१ - व्योम प्राचिनुतां वाणैः, क्ष्माम॑क्ष्मापयतां गतैः, ॥
अभित्त तूर्णम॑न्योन्यं शिक्षाश् चा ऽतनुतां मुहुः. ॥