This page has not been fully proofread.

४२८ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
।६।१।२।' इति द्विर्वचने '२४४६ । न न्द्राः - ६ । १।३।' इति रेफोन द्विरुच्यते
नुशब्दस्य द्विर्वचनम् । '२६३०। गुणो यङ्लुकोः । ७।४।८२।' इति गुणः । '२२-
९८। अकृत्सार्वधातुकयोः - । ७।४।२५।' इति दीर्घः ॥
 
युग्मम्-७६१७७
 
१४२२-व्यनाशयंस् ततः शत्रून् सुग्रीवाऽस्ता महीभृतः ॥
 

 
ततो व्यरसद ग्लायध्यशेत मही-तलम्, ॥ ७६ ॥
व्यनाशयन्नित्यादि - ततोऽनन्तरं सुग्रीवास्ताः सुग्रीवेण क्षिप्ता महीभृतः
पर्वताः शत्रुसैन्यं व्यनाशयन् मारितवन्तः । ततो मांसादां रक्षसां बलं सुग्रीव-
बाधितं पीडितमित्युत्तरश्लोकेन संबन्धः । व्यरसत् आक्रन्दितवत् । अग्लायत्
ग्लानिं गतम् । महीतलमध्यशेत महीतले पतितम् । '२४४१ । शीङः सार्वधा
तुके गुणः ।७।४।२१।' ॥
 
१४२३ - अश्योतद् रुधिरं तोयम॑लसच् चाऽति-विह्वलम्, ॥
 
अशीयत नृ-मांसाऽदां बलं सुग्रीव - वाधितम् ॥ ७७ ॥
अश्वयोतदित्यादि — रुधिरश्योतत् अस्रवत् । विह्वलं च सत् तोयमल•
सत् अभिलपितवत् । '२३२१ । वा भ्राश - । ३।१।७० ।' इत्यादिना विकल्पेन
शप् । अशीयत च अवसन्नम् । '२३६२ । शदेः शितः । १।३।६० ।' इति तङ् ।
'२३६०। पाघ्रा–२७।३।७८।' इत्यादिना शीयादेशः । मांसमदन्तीति । '२९७७।
अदोऽनने ।३।२।६८ । इति विट् ॥
 
१४२४-विरूपाक्षस् ततो क्रीडत् संग्रामे मत्त - हस्तिना, ॥
 
मुष्टिनाऽदालयत् तस्य मूर्धानं वानराधिपः ॥७८॥
 
विरूपाक्ष इत्यादि - ततो विरूपाक्षो नाम राक्षसः मत्तहस्तिना संग्रामे
अक्रीडत् भ्रान्तवान् । तस्य मूर्धानं वानराधिपः सुग्रीवः मुष्टिना अदालयत्
दलितवान् । '१८८८। दल विदारणे' चुरादिः ॥
 
१४२५ - अचूर्णयच् च यूपाक्षं शिलया तर्दनन्तरम्. ॥
 
संक्रुद्धो मुष्टिनातुनार्दङ्गदोऽलं महोदरम् ॥ ७९ ॥
अचूर्णयदित्यादि —तदनन्तरं वानराधिपः यूपाक्षं नाम राक्षसं शिलया
अचूर्णयत् चूर्णितवान् । 'तत्करोति' इति णिच् । अङ्गदो ऽपि संक्रुद्धः मुष्टिना म
होदरं अलं पर्याप्तमतुनात् व्यापादितवान् ।' १६१९। नभ तुभ हिंसायाम् । ऋयादिः ॥
१४२६ - ततो ऽकुष्णाद् दशग्रीवः
क्रुद्धः प्राणान् वनौकसाम् ॥
अगोपायच् च रक्षांसि
 
दि॒शश् चा ऽरीन॑भाजयत्. ॥ ८० ॥