2026-03-05 04:33:10 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः - ४२७
१४१८-सर्वतश् चा ऽभयं प्राप्नोन्
नैच्छन् नृभ्यस् तु रावणः ॥
फलं तस्यै॒दम॑भ्यायाद्
दुरुक्तस्येति चा ऽब्रुवन् ॥ ७२ ॥
सर्वत इत्यादि - सर्वतो देवादिभ्यः अभयं रावणः प्राप्नोत् प्राप्तवान् । यतो
'ब्रह्मणि वरं दातुमुद्यते देवादीनामवध्यो भूयासम्' इत्युक्तवान् । नृभ्यस्तु सका-
शादभयं नैच्छन्नेष्टवान् के मम मानुषा इति तस्य दुरुक्तस्य फलमभ्यायात्
उपागतम् । इत्येवमपरे अब्रुवन् उक्तवन्तः ॥
१४१९ - ततो ऽधावन् महा-घोरं रथर्मास्थाय रावणः ॥
अक्ष्मायत मही, गृध्राः समारार्यन्त भीषणाः. ॥७३॥
तत इत्यादि - ततो ऽनन्तरं महाघोरं रथमास्थायारुह्य रावणः योद्धुं वेंगे-
नाधावत् गतवान् । तस्य च धावतो मही अक्ष्मायत कम्पिता । '५२० । क्ष्मायी
विधूनने' । गृध्राश्च भीषणाः समारार्यन्त अत्यर्थं गतवन्तः । ' सूचि -सूत्र- मूत्रि-
भ्यो यहू' अव्यर्त्यशूर्णोतीनां ग्रहणं यद्विधावनेकाजूहलाद्यर्थमित्युपसंख्यानात्
अर्तेर्यङ् । '२३८०। गुणो ऽर्तिसंयोगाद्योः । ७।४।२९।' इत्यधिकृत्य ' २६३३॥ यङि
च ।७।४।३०।' इति गुणः ॥
१४२० - मेघाः स - विद्युतो ऽवर्षश् चेल- क्नोपं च शोणितम्, ॥
अवान् भीमा नभस्वन्तः, प्रारुवन्न - शिवाः शिवाः ७४
मेघा इत्यादि - सविद्युतो मेघाश्लक्नोपं शोणितं रक्तं अवर्षन् वर्पितवन्तः ।
यावता रक्तेन चेलं वासः क्नोपयते सिच्यते तावत्प्रमाणं वृष्टवन्तः । ' ५१९। क्नूयी
शब्दे' इत्यस्य ण्यन्तस्य '२५७०। अर्ति-ही-।७।३।३६।' इत्यादिना पुकि यलोपः।
३३५४। चेले क्नोपेः ।३।४।३३।' इति णमुल् । भीमाः नभस्वन्तः वायवः अवा-
नू वान्ति स्म । '२४६३। लङः शाकटायनस्यैव । ३।४।१११।' इति नियमादन्यमते
झेर्जुस् न भवति । शिवाः शृगाल्यः अशुभाः अनिष्टशंसिन्यः प्रारुवन् शब्दितवत्यः॥
१४२१ - आटाट्यता Sवमत्या सौ
दुर्निमित्तानि संयुगे ॥
अधुनोद् धनुर॑स्त्रौघैः
प्रौर्णोनूयत विद्विषः ॥ ७५ ॥
आटाट्यतेत्यादि - असौ रावणः दुर्निमित्तान्यवमत्य युद्धार्थमाटाव्यत अत्य-
र्थमात् । 'सूचि-सूत्रि-' इत्यादिना यङ् । संयुगे युद्धे धनुरधुनोत् कम्पितवान् ।
अस्त्रौघैर्विद्विपः शत्रून् प्रौर्णोनूयत भृशं छादितवान् । 'ऊर्जुन आच्छादने'। ऊर्णो-
तेर्गुवद्भावात् 'सूचि - सूत्रि-' इत्यादिना वा यङ् । '२१७६ । अजादेर्द्वितीयस्य