2026-03-05 04:33:10 by ambuda-bot
This page has not been fully proofread.
४२६
भट्टिकाव्ये -- चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
वान् । '१५४६॥ पिप्पू लंचूर्णने' । सर्वे रौधादिकाः । न च संचरन् रामः अज्ञा-
यत न ज्ञातः । स्वैः परैर्वेत्यर्थात् । कर्मणि लङ् ॥
युग्मम् - ६७।६८
१४१३ - दश दन्ति - सहस्राणि रथिनां च महाऽऽत्मनाम् ॥
चतुर्दश सहस्राणि साऽऽरोहाणां च वाजिनाम् ६७
१४१४-लक्षे च द्वे पदातीनां राघवेण धनुर्भृता ॥
अनीयन्ता ऽष्टमे भागे दिवसस्य परिक्षयम्. ॥६८॥
दशेत्यादि-अनेन श्लोकद्वयेन राघवेण धनुर्भूता दिवसस्याष्टमे भागे
अर्धप्रहरे दश दन्तिनां सहस्राणि रथिनां च महात्मनां चतुर्दश सहस्राणि ।
सारोहाणां च वाजिनां तावन्त्येव । पदातीनाम् द्वे लक्षे परिक्षयं विनाश-
मनीयन्त नीताः । कर्मणि लङ् । अनीयतेति पाठान्तरं तत्र सर्वमेतदनी-
यतेति योज्यम् ॥
१४१५ - यम- लोकर्मिवा ऽग्रश्नाद्,
रुद्राऽऽक्रीडर्मिवा ऽकरोत् ॥
शैलैरिवा ऽचिनोद भूमिं
बृहद्भी राक्षसैर् हतैः ॥ ६९ ॥
यमलोकमित्यादि - स राघवः तैः राक्षसैः बृहद्भिः यमलोकमिवाप्रश्नात्
सन्दर्भितवान् । ' १६०९ । १० । श्रन्थ ग्रन्थ सन्दर्भे' इति क्रयादिः । रुद्राक्रीडमिव
रुद्रस्य क्रीडास्थानं स्मशानमिवाकरोत् । भूमिं शैलैरिवाचिनोत् छादितवान् ॥
१४१६-अस्तुवन् देव-गन्धर्वा, व्यस्मयन्त प्लवङ्गमाः, ॥
कपीन्द्रे ऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम् ॥
अस्तुवन्नित्यादि - तमद्भुतकर्मकारिणं देवा अस्तुवन् स्तुवन्ति स्म । लव-
ङ्गमाः कपयः व्यस्मयन्त विस्मिताः । ङित्त्वात्तङ् । कपीन्द्रे सुग्रीवे प्रीतिरतन्यत
तन्यते स्म । कर्मकर्तरि लङ् । पौलस्त्यो विभीषणः आश्चर्यं ज्ञातवान् ॥
१४१७-राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम्. ॥
अमुह्यद् बाल-वृद्धं च, समरौदितरो जनः ॥७१॥
राक्षस्य इत्यादि - राक्षस्यो भर्त्रादिवधदुःखिताः उच्चैः प्रारुदन् रुदितवत्यः ।
'२.४७४। रुदादिभ्यः–।७।२७६ ।' इतीट् न भवति अहलादित्वात् । रावणं प्राजु-
गुप्सन्त निन्दितवत्यः । एतद्दुर्णयात् सर्वमिति । बाला वृद्धाश्च तद्वयं अमुह्यत्
भयान्मोहं गतम् । इतरो जनः राक्षसीबालवृद्धेभ्योऽन्यः समरौत् आक्रुष्टवान् ।
'११०७॥ रु शब्दे' '२४४३। उतो वृद्धिर्बुकि हलि । ७।३।८९।' ॥