This page has not been fully proofread.

४२५
 
तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः -
शब्दात् राक्षसेभ्योऽपि । २४३५ । द्विपश्च । ३।४।११२ । ' इत्यनेन शाकटाय-
नमते झेर्जुस् । अन्येपामद्विपन् । '५७५। क्रुध दुह - 1१1४।३७।' इत्यादिना
सम्प्रदानसंज्ञा ॥
 
१४०८ - अघुरंस् ते महा - घोरम॑श्योतन्नथ शोणितम्, ॥.
 
समपद्यत रक्तेन समन्तात् तेन कर्दमः ॥ ६२ ॥
अधुरन्नित्यादि - अथानन्तरं ते हताः अघुरन् घोरं रौद्रं शब्दितवन्तः ।
'१४३३ । घुर भीमार्थशब्दयोः' । शोणितं चाश्योतत् क्षरति स्म । तेन च रक्त-
स्रुतेन समन्तात्सर्वतः कर्दमः समपद्यत संपन्नः । कर्मणि लङ् ॥
 
१४०९ - गम्भीराः प्रावहन् नद्यः, समजायन्त च इदाः. ॥
 
वृद्धं च तद् रजोऽशाम्यत्, समवेद्यन्त च द्विषः ॥
 
गम्भीरा इत्यादि - तेन रक्तेन वर्धिष्णुना गम्भीरा अगाधाः नद्यः प्राव-
हन् प्रवृत्ताः । ह्रदास्तडागाः समजायन्त संजाताः । तच्च रजः प्रवृद्धमशाम्यत्
शान्तम् । उद्गमाभावात् । उत्पन्नत्य च पतनात् रजः शमनात् । द्विपश्च सम-
वेद्यन्त संवेद्यन्ते स्म । '१८४१ । विद चेतनाख्याननिवासेपु' इति चौरादिकः !
कर्मणि लङ् ॥
 
१४१० - ततो ऽचित्रीयता ऽस्त्रौघैर्
 
धनुश् चा ऽधूनयन् महत् ॥
 
रामः, समीहितं तस्य
 
ना चेतन् स्वेन चा ऽपरे ॥ ६४ ॥
 

 
तत इत्यादि - ततो ऽनन्तरं रामः शस्त्रौघैरचित्रीयत आश्चर्यभूतः ।
'३६७५। नमो वरिवः । ३।१।१९।' इति 'चित्रङ् आश्चयें' । ङित्त्वात्तङ् । धनुश्च
महदधूनयत् विधूनितवान् । 'धून- प्रीजोर्नुग्वक्तव्यः' । तस्य रामस्य समीहित-
मभिप्रेतं स्व आत्मीयाः वानराः न च अपरे परकीया नाचेतन् न ज्ञातवन्तः ॥
१४११ - छिन्नानैक्षन्त भिन्नांश च समन्ताद् राम - सायकैः, ॥
 
क्रुष्टं हाति चा शृण्वन् न च रामं न्यरूपयन्. ६५
छिन्नानित्यादि - रामसायकैश्छिन्नान् भिन्नांश्च समन्तादैक्षन्त । हा हेति
च क्रुष्टं शब्दमन्योन्यस्य चाशृण्वन् । न च नैव रामं न्यरूपयन् राम इति च
न निश्चितवन्तः । 'रूप व्याक्रियायाम्' इति चौरादिकः ॥
१४१२-अभिनच् छत्रु-संघातान॑क्षुणद् वाजि - कुञ्जरम्, ॥ .
अपिनट् च रथानीकं, न चा ऽज्ञायत संचरन्. ६६
अभिनदित्यादि - शत्रुसंघातानभिनत् भिन्नवान् । वाजिकुञ्जरमक्षुणत्
सम्पिष्टवान् । '१५४७। क्षुदिर् सम्पेपणे' । रथानीकं रथसमूहमपिनट् पिष्ट-