This page has not been fully proofread.

४२४ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
१४०२-अपूरयन् नभः शब्दो बल-संवर्त-संभवः ॥
 
अपूर्यन्त च दिग्-भागास् तुमुलैस् तूर्य - निस्वनैः. ५६
अपूरयदित्यादि - बलानां संवर्त एकीभावः तस्मात्संभवो यस्य स शब्दः
नभ आकाशमपूरयत् पूरितवान् । तुमुलैस्तूर्यनिस्वनैः महद्भिर्घोषैर्दिग्भागा
अपूर्यन्त पूर्णाः । कर्मणि लङ् ॥
 
:
 
१४०३ - आसीद् द्वारेषु संघट्टो रथाऽश्व- द्विप- रक्षसाम् ॥
 
सुमहान-निमित्तैश् च समभूयत भीषणैः ॥ ५७ ॥
 
आसीदित्यादि - रथादीनां निर्गच्छतां लङ्काद्वारेषु संघट्टः सुमहानासीत् ।
जनभूयस्तथा संघर्षो ऽभूत् । '२३२५। अस्तिसिचोऽपृक्ते ।७।३।९६ ।' इतीट् ।
'अनिमित्तैः भीषणैर्भयंकरैर्महद्भिः समभूयत क्षयकरैर्निमित्तैर्भूतम् । भावे लड् ॥
१४०४ – कपयो ऽविभयुस् तस्मिन्नभञ्ज॑श् च महा-द्रुमान् ॥
 
प्रोदखायन् गिरींस् तूर्णम॑गृह्वंश् च महा-शिलाः. ५८
 
कपय इत्यादि - तस्मिन्निर्गते कपयो ऽविभयुः भीतवन्तः । महाद्रुमांश्च
योद्धुमभञ्जन् भग्नवन्तः । गिरीन् प्रोदखायन् उत्खातवन्तः । '९७८ । खै खदने'।
शिति आत्वं न भवति । महाशिला अगृह्णन् गृहीतवन्तः ॥
१४०५ - ततः समभवद् युद्धं प्राहरन् कपि-राक्षसाः, ॥
 
अन्योन्येना ऽभ्यभूयन्त, विमर्दमसहन्त च ॥५९॥
 
तत इत्यादि - ततो ऽनन्तरं युद्धं समभवत् प्रवृत्तम् । कपिराक्षसाः प्राहरन्
प्रहृतवन्तः । अन्योन्येनाभ्यभूयन्त कपयो राक्षसैः राक्षसाश्च कपिभिरिति ।
कर्मणि लङ् । विमर्दमसहन्त च सोढवन्तः ॥
 
१४०६ - प्रावर्धत. रजो भौमं तद् व्याश्रुत दिशो दश ॥
 
"
 
पराऽऽत्मीय - विवेकं च प्रामुष्णात् कपि-रक्षसामू. ६०
प्रावर्धतेत्यादि — बलद्वयप्रक्षोभात् भौमं रजः प्रावर्धत प्रवृद्धम् । तद्वजो
'दश दिशो व्याद्भुत व्याप्नोत् । अयं परो ऽयं चात्मीय इति यो विवेकस्तं च प्रामु-
ष्णात् अपनीतवत् । '१६२९। मुप स्तेये' ऋयादिः ॥
१४०७ - ततो ऽद्विषुर् निरालोके
 
स्वेभ्यो ऽन्येभ्यश्च राक्षसाः ॥
अद्विषन् वानराश् चैव
 
वानरेभ्यो ऽपि निर्दयाः ॥ ६१ ॥
 
तत इत्यादि - ततो ऽनन्तरं निरालोके समरे राक्षसाः स्वेभ्यो ऽन्येभ्य-
श्राद्विषुः क्रुध्यन्ति स्म । वानरा अपि वानरेभ्यो ऽद्विपन् निर्दयाः सन्तः ।
 
अपि