2026-03-05 04:33:10 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः - ४२३
१३९७ - अग्नीन॑वरिवस्य॑श् च ते ऽनमस्यंश् च शङ्करम्, ॥
"
द्विजान्प्रीणयन् शान्त्यै यातुधाना भवद्- भियः. ५१
अग्नीनित्यादि - ते यातुधानाः भवद्भियः उत्पद्यमानभीतयः । अग्नीनव-
रिवस्यन् परिचारितवन्तः । ' २६७५॥ नमोवरिवश्चित्रङः क्यच् । ३।१।१९१' इति
वरिवसः परिचर्यायामिति क्यच् । तदन्ताल्लङ् । शङ्करं च महादेवं अनमस्यन्
पूजितवन्तः । अत्र नमसः पूजायां क्यच् । द्विजांश्च शान्त्यै शान्त्यर्थमप्रीणयन्
प्रीणितवन्तः । 'धूञ् प्रीजोर्नुग्वक्तव्यः' ॥
१३९८- परितः पर्यवाद् वायुराज्यगन्धिर् मनो- रमः, ॥
अश्रूयत स - पुण्याहः स्वस्ति घोषः समुच्चरन् ॥५२॥
परित इत्यादि - अग्निसन्तर्पणादाज्यगन्धिः आज्यस्य गन्धो यस्मिन्वाय
स वायुर्मनोरमः परितः सर्ववेश्मसु पर्यवात् वाति स्म । स्वस्तिघोपश्च सपुण्याहः
पुण्याहशब्देन सह समुच्चरन्नश्रूयत श्रूयते स्म । कर्मणि लङ् ॥
१३९९–योद्धारो ऽबिभरुः शान्त्यै साऽक्षतं वारि मूर्धभिः, ॥
रत्नानि चा ऽददुर्गाश् च, समवाञ्छन्न॑था ऽऽशिपः.
योद्धार इत्यादि-योद्धारः शान्त्यै शान्त्यर्थं साक्षतं अक्षततण्डुलैर्युकं
सलाजं च वारि जलं मूर्धभिरविभरुः दधति स्म । '२२२६। सिजभ्यस्त -
।३।४।१०९ ।' इति झेर्जुस् '२४९६। भृञामित् ।७।४।७६ ।' इतीत्वम् । रत्नानि
गाश्चाददुः दत्तवन्तः । आशिपश्च तेभ्यः समवाञ्छन् काङ्क्षितवन्तः । '२१७।
वाछि इच्छायाम्' ॥
.
१४०० – अदिहंश् चन्दनैः शुभैर्, विचित्रं समवस्त्रयन् ॥
अधारयन् स्रजः कान्ता, वर्म चा ऽन्ये ऽदधुर् द्रुतम्.
"
अदिहन्नित्यादि - शुभैः शुक्लवर्णैश्चन्दनैः अदिहन् गात्राणि लिप्तवन्तः ।
'१०८४। दिह उपचये' । विचित्रं शोभनं समवस्त्रयन् आच्छादितवन्तः ।
'२६७७। मुण्ड-मिश्र-।३।१।२१।' इत्यादिना वस्त्रात्समाच्छादने णिच् । कान्ताः
शुभ्राः स्रजः अधारयन् धारितवन्तः । '९६६। धृञ् धारणे' । अण्यस्
प्रयोग एव नास्ति । अन्ये च वर्माणि कवचानि द्रुतमदधुः धारितवन्तः ॥
१४०१–समक्ष्णुवत शस्त्राणि, प्रामृजन् खड्ग-संहतीः,
I
गजा ssदीनि समारोहन् प्रातिष्ठन्ता ऽऽथ सत्वराः.
समक्ष्णुवतेत्यादि — शस्त्राणि समक्ष्णुवत । '१११०। क्ष्णु तेजने' । '२७३६।
समः क्ष्णुवः ।१।३।६५।' इति तङ् । खड्गसंहतीः प्रामृजन् शोधितवन्तः ।
मृजेरजादौ विभाषा वृद्धिः । गजादीनि यानानि समारोहन् आरूढाः । गजा-
दिष्विति पाठान्तरम् । तत्राधिकरणत्वं विवक्षितम् । अथानन्तरमारूढाः सत्वराः
प्रातिष्ठन्त प्रस्थिताः । ' २६८९ । समव-प्र-विभ्यः स्थः ॥३।२२।' इति तङ् ॥