2026-03-05 04:33:09 by ambuda-bot
This page has not been fully proofread.
४२२ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
-
प्रहरणविशेषः । तच्चासुरं सुदुर्जयं सौमित्रिः माहेश्वरेण अस्तनात् स्तम्भितवान् ।
'२५५५॥ स्तम्भु ।३।१।८२।' इत्यादिना श्रा चकारात् शुश्च ॥
१३९२ - ततो रौद्र-समायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत्, ॥
तेना ssगम्यत घोरेण, शिरश्चाऽह्नियत द्विषः ४६
तत इत्यादि - ततो ऽनन्तरं रौद्रसमायुक्तं रौद्रास्त्रेण सहितं माहेन्द्रमस्त्रं
लक्ष्मणो ऽस्मरत् चिन्तितवान् । तेन स्मरणादेवागम्यत आगतम् । भावे लङ् ।
तस्य द्विपः शत्रोः शिरश्चाहियत छिन्नम् । कर्मणि लङ् ॥
१३९३ - अनु॒ष्यन्न॑म॒राः सर्वे, प्राहृष्यन् कपियूथपाः,
॥
पर्यष्वजत सौमित्रिं, मूयैजिघ्रच् च राघवः ॥४७॥
अतुष्यन्नित्यादि - तस्मिन् मृते अमरा देवाः अतुष्यन् तुष्टाः । कपियू-
थपाः प्राहृष्यन् प्रहृष्टाः । राघवश्च सौमित्रिं पर्यप्वजत आश्लिष्टवान् । '२३९६।
दंश-सञ्ज-।६।४।२५' इत्यनुनासिकलोपः । '२२७६ । प्राक् सितादव्यवायेऽपि
।८।३।६३।' इति वचनात् । '२२७५। परि-नि-विभ्यः । ८।३।७० ।' इत्यादिना
पत्वम् । मूर्यजिघ्रच्च आघ्रातवान् ॥
१३९४–अरोदीद् राक्षसाऽनीकर्मरोदन् नृ-भुजां पतिः, ॥
मैथिल्यै चा ऽशपर्द्धन्तुं तां प्राक्रमत चाऽऽतुरः. ४८
अरोदीदित्यादि - राक्षसानीकं राक्षससैन्यमरोदीत् रुदितम् । '२४७५ ।
रुदश्च पञ्चभ्यः ।७।३।९८।' इतीट् । नृभुजां पतिः रावणः अरोदत् रुदितः ।
'२४७६। अड् गार्ग्य-गालवयोः । ७।३।९९ ।' इत्यडागमः । मैथिल्यै चाशपत्
आक्रुष्टवान् । सर्वदोषस्य मूलमिति । '५७२। श्लाघ - हुइ – ।१।४।३४।' इत्या-
दिना कर्मणि सम्प्रदानसंज्ञा । तां च हन्तुं आतुरो मन्युक्षतः प्राक्रमत प्रारब्ध-
वान् । '२७१५। प्रोपाभ्याम् । १।३।१२।' इति तङ् ॥
१३९५-'अ-युक्तमि॑दमि॑' त्य॑न्ये तमा॑प्ताः प्रत्यवारयन् ॥
न्यरुन्धंश् चा ऽस्य पन्थानं वन्धुता शुचमारुणत्. ४९
अयुक्तमित्यादि - अन्ये आप्ताः राक्षसाः अयुक्तमेतदिति मन्यमानाः तं
तथाविधं प्रत्यवारयन् आवार्य स्थिताः । '१९५०। वृञ् आवरणे' चुरादिः ।
न्यरुन्धंश्च हस्तपादादिग्रहणेन रुद्धवन्तः । बन्धुता वन्धुसमूहः । अस्य शोक-
मारुणत् अपनीतवती । हल्ङयादि लोपः । धकारस्य जश्त्वम् ॥
१३९६–आस्फायता ऽस्य वीरत्वममर्षश् चा ऽप्येतायत ॥
रावणस्य ततः सैन्यं समस्तम॑युयुत्सयत्. ॥ ५० ॥
आस्फायतेत्यादि-अथ निरुद्धशोकस्य रावणस्य वीरत्वं शौर्य आस्फायत
वृद्धिं गतम् । अमर्पश्च क्रोधः अतायत विस्तारं गतः । ततः स रावणः समस्तं
सैन्यं अयुयुत्सयत् युयुत्समानं प्रयोजितवान् ॥