This page has not been fully proofread.

तथा लक्ष्य-रूप कथानके 'रावण वधो' नाम सप्तदशः सर्गः– ४२१
 
दोषैरित्यादि — एभिर्दोषैस्तव पिता रावणः अरमत क्रीडितवान् । येर्दोष-
र्मया अत्यज्यत । कर्मणि लङ् । ततः पितुर्दोषप्रकाशनवचनादनन्तरम् । रावणि-
रिति वक्ष्यमाणेन संबन्धः । अरुष्यत् रुष्टः । 'रुप रुष्टौ'। अनर्दच्च विस्फूर्जितवांश्च ॥
१३८७ - शरैर॑ताडयद् वन्धुं पञ्चविंशतिभिर् नृपम् ॥
 
रावणिस् तस्य सौमि॒त्रर॑मनाच् चतुरो हयान् ॥४१॥
शरैरित्यादि - बन्धुं विभीषणं द्विविंशतिभिरताडयत् । चत्वारिंशतेत्यर्थः ।
हे विंशती येषां शराणामिति बहुव्रीहिः । एवं च '८०८। व्यष्टनः संख्यायाम्-
।६।३।४७।' इत्यात्वं न । तथा पञ्चविंशतिभिः शरैर्नृपं लक्ष्मणं अताडयत् ।
शतेनेत्यर्थः । द्वौ च विंशतिश्च पञ्च विंशतिश्चेत्यस्मिन् व्याख्याने द्वाविंशत्या पञ्च-
विंशत्येति च प्राप्नोति । सौमित्रिस्तु तस्य रावणेश्चतुरो हयान् वाणैरमञ्जात् ।
'९०५ । मधे विलोडने' इति ऋयादौ ॥
१३८८ - सारथिं चा ऽलुनाद् वाणैरभनक् स्यन्दनं तथा, ॥
 
सौमित्रिमकिरद् वाणैः परितो रावणिस् ततः ॥४२॥
 
सारथिमित्यादि- - तस्य रावणेः सारथिं चालुनात् छिन्नवान् । '२५५८ -
दादीनां ह्रस्वः । ७।३।८०।' । तथा स्यन्दनमभनक् भग्नवान् । '१५४७ । भञ्जो
आमर्दने' इति रुधादिः । ततोऽनन्तरं रावणिः सौमित्रिं परितः समन्तात्
बाणैरकिरत् छादितवान् ॥
 
१३८९-ताव॑स्फावयतां शक्तीर, वाणांशू चाऽकिरतां मुहुः. ॥
 
वारुणं लक्ष्मणो ऽक्षिप्यद॑क्षिपद् रौद्रमिन्द्रजित् . ४३
 
तावित्यादि - ताविन्द्रजिलक्ष्मणौ शक्ति सामर्थ्यमस्फावयतां वर्धितवन्तौ ।
'२५९७। स्फायो वः ।७।३।४१।' बाणांश्च मुहुरकिरतां विक्षिप्तवन्तौ । वारुण-
मस्त्रं लक्ष्मणो ऽक्षिप्यत् । दैवादिकस्य रूपम् । इन्द्रजिद्वौद्रं पाशुपतमक्षिपत्
क्षिप्तवान् । तौदादिकस्य रूपम् ॥
 
१३९० - ते परस्परमा॑साद्य शस्त्रे नाशम॑गच्छताम्, ॥
 
आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत् ॥ ४४ ॥
 
ते परस्परमित्यादि - ते शस्त्रे परस्परमासाद्य प्राप्य नाशमगच्छतां नाशं
गते । ततस्तन्नाशादनन्तरं राक्षसो रावणिः आसुरं असुरदैवतं शस्त्रं घोरं भीषणं
व्यसर्जयत् क्षिप्तवान् ॥
 
१३९१–तस्मान् निरपतद् भूरि शिला-शूलेष्टि-मुद्गरम् ॥
माहेश्वरेण सौमित्रिर॑स्तभ्नात् तत् सुदुर्जयम्. ॥४५॥
 
तस्मादित्यादि - तस्मादासुरास्त्रात् शिलाशूलेष्टिमुद्गरं निरपतत् । इष्टिः
३६