This page has not been fully proofread.

४२० भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थो वर्गः,
 
1
 
सत्यं समभवं वंशे
 
पापानां रक्षसामहम् ॥ ३६ ॥
 
मिथ्येत्यादि - मिथ्या मृपा मा स्म व्यतिक्रामः मा परिभूः । ' २३२२ ।
क्रमः-।७।३।७६।' इत्यादिना शिति दीर्घः । शीलं स्वभाव: मा न बुध्यथाः मा
न बुद्धास्त्वं अपि तु ज्ञातवानसि । '२२२० । स्मोत्तरे लड् च ।३।३।१७६३' ।
पापानां रक्षसां वंशे ऽहं सत्यं समभवं संभूत इति ॥
१३८३ - न त्वजायत मे शीलं
 
तादृग्, यादृक् पितुस् तव ॥
क्षयाssवहेषु दोषेषु
 
वार्यमाणो मया Sरमत् ॥ ३७ ॥
 
न त्वित्यादि — यद्यप्यहं राक्षसकुले जातस्तथापि तव पितुर्यादृक् शीलं
स्वभावस्तादृक् मे न त्वजायत नैवाभूत् । यतो ऽसौ क्षयमावहन्तीति क्षया-
वहाः । पचाद्यच् । तेषु दोषेषु परस्त्रीहरणादिषु मया वार्यमाणोऽपि । दशग्रीव
इति संबन्धः। अरमत् रतिं कृतवान् । '२७४९ । व्याङ् - परिभ्यो रमः ।१।३।८३ । '
इति परस्मैपदम् ॥
 
१३८४ - दश-ग्रीवो हमे॑तस्मादेत्यजं, न तु विद्विषन्. ॥
 
पर-स्वान्यर्जयन्, नारीर्रन्यदीयाः परामृशत्. ३८
दशग्रीव इत्यादि - एतस्मात्कारणादहं रावणमत्यजं त्यक्तवानस्मि न पुन-
र्द्विषन् अमित्रीभवन् । '३१११ । द्विषोऽमित्रे ।३।२। १३११' इति शतृप्रत्ययः ।
तान् दोषानाह - परस्वानि परवित्तानि आर्जयत् अन्यैग्रहितवान् । '२३३।३४।
अर्ज सर्ज अर्जने' इति भ्वादौ हेतुमणिच् । '१८५८। अर्ज प्रतियते' इति
चौरादिकस्य वा रूपम् । अन्यदीयाः नारीश्च परामृशत् स्पृष्टवान् । १५१९।
मृश आमर्शने' इति तुदादावनुदात्तेत् ॥
 
१३८५ - व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते, ॥
 
आशङ्कत सुहृद् बन्धूनुं वृद्धान् वमन्यत ॥ ३९॥
व्यजिघृक्षदित्यादि - सुरान् नित्यं व्यजिघृक्षत् विग्रहीतुमैच्छत् । गुणिनां
माल्यवटाभृतीनां यदुक्तं हितं तस्मिन् विषये प्रामाद्यत् प्रमादं गतः । ' १२८४।
मदी हर्पे' । '२५१९। शमामष्टानाम् ।७।३।७४।' इति दीर्घः । सुहृदो बन्धूंश्च
सुहृदन्धून् आशङ्कत विकल्पितवान् । अवृद्धान् अविदुपः प्रहस्तादीन् बह्वम-
न्यत श्लाघितवान् ॥
 
५३८६–दोषैर॑र॒मति॑भिस् ते पिता ऽत्यज्यत यैर् मया ॥
 
ततो- रुष्यनर्दच्च, द्वि-विंशतिभिरेव च ॥४०॥