2026-03-05 04:33:09 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके रावण वधो' नाम सप्तदशः सर्गः - ४१९
इह च देहः सुरामिपैरपुष्यद् वृद्धिं गतः । पुपिदैवादिकः । देहमपुष्य इति पाठा-
न्तरम्। तत्र देहं पोषितवानसि । अन्तर्भावितण्यर्थो द्रष्टव्यः ॥
१३७९ - इहा ऽजीव, इहैव त्वं क्रूरमारभथाः कथम्, ॥
नाऽपश्यः पाणिमर्दं त्वं, बन्धु-त्वं नाऽप्यपैक्षथाः. ३३
इहेत्यादि — इहाजीवः जीवितो ऽसि कथमिहैव त्वं क्रूरं कर्म आरमथाः
आरब्धवानसि । आर्द्र पाणिं च नापश्यस्त्वं न दृष्टवानसि । यावता कालेन
भुक्त्वा पाणिः शुष्यति तावन्तमपि कालं नापेक्षितवानसीत्यर्थः । आस्तां तावदे-
तत् । वन्धुत्वमपि एकगोत्रत्वमपि नापैक्षथाः ॥
१३८० - अ-धर्मान् ना ऽत्रसः पाप !
लोक-वादान् न चा ऽविभेः,
धर्म-दूषण ! नूनं त्वं
॥
नां जाना, ना शृणोरिदम् ॥ ३४ ॥
अधर्मादित्यादि - हे पाप ! अधर्मादपि नानसः न त्रस्तो ऽसि । '११९२।
त्रसी उद्वेगे' । दिवादौ । '२३२१ वा भ्राश - १३।१।७० ।' इत्यादिना पक्षे शप् ।
लोकवादात् जनापवादात् न चाविभेः न भीतो ऽसि । श्लौ द्विर्वचनम् । धातो-
गुणः । ' ५८८ । भी प्रार्थानाम् । १।४।२५ ।' इत्यपादानसंज्ञा । हे धर्मदूषण !
धर्मस्य दूपण धर्मोच्छेदक ! अतिविपरीते स्थितत्वात् । '१२६१ । दुप वैकृत्ये' ।
' २६०४ । दोपो णौ ।६।४।१०।' इत्युपधाया ऊत्वम् । दूपयतीति दूपणः ।
'२८४१ । कृत्यल्युटो बहुलम् । ३ । ३।११३ ।' इति कर्तरि ल्युट् । न तु नन्द्यादिपाटे
ल्युः । तत्र हि 'नदि-वाशि- मदि - दूपि साधि - पचि-शोधि- रोचिभ्यो ण्यन्तेभ्यः
'पूजायाम्' इत्युक्तम् । न चात्र पूजा गम्यत इति । नूनं अवश्यं त्वं नाजानाः
स्वयमिदं न ज्ञातवानसि । '१६०४ । ज्ञा अवबोधने ।' क्र्यादावुदात्तेत् । २५११।
ज्ञा-जनोर्जा । ७।३।७९।' । इदमन्यतोऽपि नाशृणोः द्विपच्यो न श्रुतवानसि ।
'२३८६। श्रुवः शु च ।३।१।७४ । ' ॥
किं तदित्याह-
१३८१-निराकृत्य यथा वन्धून् लघु-त्वं यात्य-संशयम्.' ॥
पितृव्येण ततो वाक्यमभ्यधीयत शक्रजित् ॥ ३५ ॥
निराकृतेत्यादि - यथा बन्धून् निराकृत्य परित्यज्य [ लघुत्वम् ] लघुतां
`यात्यसंशयमसन्देहम् । ततः पुत्रोक्तेरनन्तरं पितृव्येण विभीषणेन शक्रजिद्वाक्यम-
भ्यधीयतं अभिहितः । कर्मणि लङ् । '२४६२। घु-मास्था - । ६।४।६६ ।' इतीत्वम् ॥
१३८२ - 'मिथ्या मा स्म व्यतिक्रामो,
मच्छीलं मा न बुध्यथाः, ॥