This page has not been fully proofread.

४१८ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण - रूपे चतुर्थो वर्गः,
 
श्रुत्वा राघवः सौमित्रेर्यूथपानां च गन्तुमाज्ञां प्रायच्छत् दत्तवान् । '९९६। दाण्
दाने' । '२३६०। पा-घ्रा - १७१३२७८।' इत्यादिना यच्छादेशः ॥
 
१३७४-तां प्रत्यैच्छन् सु-संप्रीतास् ततस् ते - स-विभीषणाः, ॥
 
निकुम्भिलां समभ्यायन्, न्यरुध्यन्त च राक्षसैः २८
ता मित्यादि - ततस्ते सविभीषणाः सुसंप्रीतास्तामाज्ञां प्रत्यैच्छन् प्रतीष्टवन्तः
प्रतिगृहीतवन्तः । '१४४० । इषु इच्छायाम्' । '२४०० इषु गमि-यमां छः
।७।३।७७।' ते च निकुम्भिलां समभ्यायन् समभिगताः । '५०८। अय गतौ ।'
तन्न च ये दिक्पालाः राक्षसाः तैर्न्यरुध्यन्त रुद्वाः प्रवेष्टुं पन्थानं न लब्धवन्तः ।
कर्मणि लङ् ॥
 
१३७५-दिक्-पालैः कदनं तत्र सेने प्राकुरुतां महत्, ॥
 
ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्य - लक्ष्मणौ ॥२९॥
दिक्पालैरित्यादि — तत्र निकुम्भिलोद्देशे उभे अपि सेने महत्कदनं विना-
शनं युद्धं वा प्राकुरुतां कृतवन्तौ । तानि रक्षांसि निर्जित्य पौलस्त्यलक्ष्मणौ द्रुत-
मैतां गतवन्तौ । '१११८। इण् गतौ ।' आद वृद्धिः ॥
 
१३७६ – तत्रैन्द्रजितमैक्षेतां कृत- धिष्ण्यं समाहितम् ॥
 
सो जुहोत् कृष्णवर्त्मानममनन् मन्त्रमुत्तमम् ३०
तत्रेत्यादि - तत्र निकुम्भिलायां तावैक्षेतां दृष्टवन्तौ । इन्द्रजितं कृतधिष्ण्यं
कृताभ्यगारम् । समाहितं एकाग्रमानसम् । स इन्द्रजित् कृष्णवर्त्मानमजुहोत्
हुतवान् । मन्त्रमुत्तममामनन्ः आवर्तयन् । '९९५ ॥ म्ना अभ्यासे ।' शतरि '२३६० ।
पा-घ्रा - १७३१७८१' इत्यादिना मनादेशः ॥
 
१३७७–अध्यायच् छक्रजिद् ब्रह्म, समाधेरचलन् न च ॥
 
तमा॑ह्वयत सौमन्त्रर॑गर्जच् च भयंकरम् ॥ ३१ ॥
अध्यायदित्यादि - शक्रजिदिन्द्रजित्परं ब्रह्माध्यायत् चिन्तितवान् । '९७४।
ध्यै चिन्तायाम्' आत्वं शिति । न च समाधेश्चित्तवृत्तिनिरोधादचलत् चलित-
वान् । तं तथाभूतमिन्द्रजितं सौमित्रिर्युद्धायाहयत आहूतवान् । भयंकरं चाग-
र्जत् शब्दितवान् ॥
 
१३७८ - अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः ॥
 
'त्वमंत्रा ऽजायथा, देह इहा ऽपुष्यत् सुराऽमिषैः, ३२
अकुप्यदित्यादि - तत्र तस्मिन्नाह्वाने कृतवति गर्जिते च सति अकुप्यत् क्रुद्धः
'१३१२। कुप क्रोधे' दैवादिकः । पितृव्यं च पितृभ्रातरं विभीषणम् । पितृशब्दाबू
भ्रातरि व्यन्निपातितः । वचो वक्ष्यमाणमगदत् उक्तवान् । अन्नास्मिन् । राक्षस-
कुले त्वमजायथाः जातो ऽसि । '१२२४। जनी प्रादुर्भावे ।' दैवादिको ऽनुदात्तेत् ।