This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः -
 
४१७
 
यत्कृत इत्यादि - यस्याः कृते यन्निमित्तं [ अरीन् ] परान् अशोकवनिका-
स्थितान् व्यगृह्णीम विगृहीतवन्तः । '२२२० नित्यं ङितः । ३ । ४ । ९९ ।' इति लङि
उत्तमस्य लोपः । समुद्रं चातराम तीर्णवन्तः । '२१७०१ अतो दीर्घो यजि
।७।३।१०१।' इति दीर्घः । सा सीता हतेति वदन्मरुत्सुतः राममुपातिष्टत् ढौकि-
तवान् । अन्न यमुना गङ्गामुपतिष्ठत इत्येवं सङ्गतकरणम् । उपलेपो नास्तीति
'उपाद्देवपूजा -' इत्यादिना तङ् न भवति ॥
 
१३७०–ततः प्रामुह्यतां वीरौ राघवाव॑रुतां तथा, ॥
 
उष्णं च प्राणितां दीर्घमुच्चैर् व्याक्रोशतां तथा ॥२४॥
 
तत इत्यादि - ततो हनूमद्वचनानन्तरं राघवौ वीरौ प्रामुह्यतां मोहं गतौ
तथा ऽरुतां क्रन्दितवन्तौ । '११०७ । रु शब्दे' । '२४४३। उतो वृद्धिः-१७७३।८९१'
न भवति । तत्रापि 'सार्वधातुके' इत्यनुवर्तते । तथा दीर्घमुष्णं च प्राणितां निश्व-
सितवन्तौ । '११४४। अन प्राणने ।' '२४७४ । रुदादिभ्यः सार्वधातुके ।७।२७६।'
इतीट् । तथा उच्चैराक्रोशतां 'हा सीते' इति आहूतवन्तौ ॥
 
१३७१ - ताव॑भाषत पौलस्त्यो 'मा स्म प्ररुदितं युवाम्, ॥
 
ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छन्निकुम्भिलाम्. ॥
तावित्यादि - पौलस्त्यो विभीषण आगत्य तौ तथाभूतावभापत उक्तवान् ।
युवां मा स्म प्ररुदितं मारोदिष्टम् । '२२२०। स्मोत्तरे लड् च ।३।३।१७६१' इति
लङ् । यतो ध्रुवमवश्यं स इन्द्रजित् पापः अस्मान् मोहयित्वा मायया विमोह्य ।
मुहेरकर्मकत्वाद् '५४०। गति-बुद्धि-1१।४।५२ ।' इत्यादिना कर्मसंज्ञा । निकुम्भि-
लामग्निगृहमगच्छत् गतवान् । तत्र भूतानद्यतन एव लड् ॥
 
१३७२ – मा स्म तिष्ठत, तत्र - स्थो वध्यो ऽसार्व- हुता॒ऽनलः, ॥
 
अस्त्रे ब्रह्म-शिरस्यु॑ग्रे स्यन्दने चा ऽनुपार्जिते ॥२६॥
 
मा स्मेत्यादि - मा स्म तिष्ठत मा विलम्बध्वं गच्छत । '२२२० । स्मोत्तरे
लङ् च ।४।३।१७६।' यतस्तत्रस्थो निकुम्भिलास्थो ऽसावहुतानलः अकृताग्निकार्यों
वध्यः शक्यो हन्तुम् । '२८२३। शकि लिङ् च । ३।३।१७२१' इति चकारात्
'३३१२। कृत्याश्च ।३।३।१७१ । इति वचनात् लङ् । 'कृत्याश्च' इति वचनात्
'हनो वधश्च' इति उपसंख्यानाद्यत् । कथमहुतानलो वध्य इति चेत् अस्त्रे ब्रह्म-
शिरसि ब्रह्मशिरोनाम्नि उग्रे दुष्प्रयोगे स्यन्दने च अनुपार्जितेऽप्राप्ते सति ॥
 
कथमुभयं तेनोपार्ज्यत इत्याह-
 
१३७३–ब्रह्मा ऽदधाद् वधं तस्य तस्मिन् कर्मण्य॑संस्थिते ' ॥
 
प्रायच्छदाज्ञां सौमित्रेर यूथपानां च राघवः ॥२७॥
ब्रह्मेत्यादि - यतस्तस्यां निकुम्भिलायां कर्मण्यसंस्थिते असमाप्ते ब्रह्मा वधं
तस्यादधात् धारितवान् । उक्तवानित्यर्थः । श्लौ द्विर्वचनम् । एवं विभीषणवचः.