This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः - ४१५
 
आस्यन्नित्यादि - लवङ्गमा अपि वृक्षानास्यन् क्षिप्तवन्तः । '१२८५॥ असु
'क्षेपणे' । तथा भूधरैः पर्वतैरधुन्वन् हतवन्तः । 'अधूर्वन्' इति पाठान्तरम् । तत्र
६२२६५। उपधायां च ।८।२।२८।' इति दीर्घः । क्रोधान्मुष्टिभिरहिंसन् ताडित-
वन्तः । दशनैर्दन्तैरदशन् खादितवन्तः । '२३९६ । दंश-सञ्ज-स्वआं शपि ।
।६।४।२५।' इत्यनुनासिकलोपः ॥
 
१३६०–प्रादुन्वन् जानुभिस् तूर्णम॑तु॒द॑स् तल-कूर्परैः, ॥
 
प्राहिण्वन्नरि-मुक्तानि शस्त्राणि विविधानि च ॥१४॥
प्रादुन्वन्नित्यादि – जानुभिस्तूर्ण प्रादुन्वन् पीडितवन्तः '१३३६। दुदु
उपतापे ।' स्वादिः । तलकूर्परैः हस्ततलैः प्रकोष्ठैश्चातुदन् व्यथितवन्तः । अरि-
भिर्मुक्तानि विविधानि यानि शस्त्राणि तानि प्राहिण्वन् प्रहितवन्तः ॥
१३६१ - अतृणेट् शक्र - जिच् छन्नूनं भ्राम्यच् च समन्ततः, ॥
 
अध्वनच् च महा-घोरं, न च कंचन नाऽदुनोत्. १५
अतृणेडित्यादि - ततः शक्रजिदिन्द्रजित् शत्रूनतृणेट् हिंसितवान् । तृहेः
श्नम् । तस्य '२५४५॥ तृणह इम् । ७।३।१२।' हलुङयादिलोपः । हकारस्य ढत्व-
जश्त्वचर्त्वानि । समन्ततश्चाभ्राम्यत् भ्रान्तवान् । महाघोरं च भीषणं स्वनं
अध्वनत् नादितवान् । न च कंचन नादुनोत् कंचिदपि न नोपतापितवान् अपि
तु सर्वानपि पीडितवानित्यर्थः ॥
१३६२-नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त बिभ्रतम् ॥
 
.
 
नैषून चेतन्नस्यन्तं, हतास् तेना विदुर् द्विषः ॥ १६ ॥
नाजानन्नित्यादि - धनुषि शरं सन्दधानमारोपयन्तमिन्द्रजितं नाजानन्
न ज्ञातवन्तः । धनुर्विभ्रतं नैक्षन्त धनुर्धारयन्तं न दृष्टवन्तः । इपून् शरानस्यन्तं
क्षिप्यन्तं नाचेतन् हस्तलाघवात् न ज्ञातवन्तः । '३९॥ चिती संज्ञाने' । '१३४ ।
ङमो ह्रस्वात् ।८।३।३२।' इति ङमुद । तेन हताः सन्तो द्विपः अविदुः ज्ञात-
वन्तः पूर्वोक्तम् । '२२२६। सिजभ्यस्त - विदिभ्यश्च । ३ । ४ । १०९ ।' इति झेर्जुस् ॥
१३६३ - अशृण्वन्न॑न्यतः शब्द, प्रपलायन्त चा ऽन्यतः, ॥
 
आक्रन्दम॑न्यतोऽकुर्व॑स् तेना ऽहन्यन्त चाऽन्यतः. १७
अशृण्वन्नित्यादि - अन्यतः अन्यस्मिन् प्रदेशे केचिद् द्विपः शब्दमव-
ण्वन्। '२३८६। श्रुवः श्रु च ।३।१।७४।' इति भावः क्षुप्रत्ययश्च । अन्यत्र
स्थिताः प्रपलायन्त पलायिताः । अन्यतो ऽन्यत्र प्रदेशे स्थिताः आक्रन्दं अकुर्वन्
रोदनं कृतवन्तः । अन्यतो ऽन्यत्र तेनेन्द्रजिता अहन्यन्त व्यापादिताः । कर्मणि
लङ् । सर्वत्राद्यादित्वात्तसिः ॥
 
१३६४ - प्रालोठन्त, व्यभिद्यन्त, परितो रक्तम॑स्रवन् ॥
 
पर्यश्राम्यन्नुतृष्यंश् च क्षतास् तेनाऽम्रियन्त च.१८