This page has not been fully proofread.

४१४ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
हयद्विपं पशुद्वन्द्वस्य विभाषैकवद्भावः । प्राद्रेकत शब्दितवन्तः । '८१। ब्रेकृ
शब्दोत्साहे' इत्यनुदात्तेत् ॥
 
१३५५-अ-निमित्तान्य॑था ऽपश्यन्न॑स्फुटद् रवि-मण्डलम्, ॥
 
औक्षन् शोणितम॑म्भोदा, वायवोऽवान् सु- दुःसहाः ॥
अनिमित्तानीत्यादि — अनिमित्तानि कुत्सितनिमित्तानि । नजन्न कुत्सायाम् ।
गच्छन्तो ऽपश्यन् दृष्टवन्तः । तानि दर्शयति-- रविमण्डलमस्फुटत् स्फुटितम्,
अम्भोदाः शोणितमौक्षन् वृष्टाः । '७०५ ॥ उक्ष सेचने' । वायवः सुदुःसहाः
प्रचण्डा अवान् वान्ति स्म । शाकटायनमतादन्यत्र उसादेशः ॥
१३५६ - आर्च्छन् वामं मृगाः कृष्णाः,
शस्त्राणां व्यस्मरन् भटाः, ॥
 
रक्तं न्यष्ठीवदेक्लाम्य-
 
देखिद्यद् वाजि - कुञ्जरम्. ॥ १० ॥
 
आच्छेन्नित्यादि - निर्गच्छतां वामपार्श्व कृष्णमृगा आर्च्छन् गताः । अर्तेः
'२३६०। पा-घ्रा–१७।३।७८।' इति ऋच्छादेशः ।' १३८० । ऋच्छ गतौ' इत्यस्य वा
रूपम् । भटाश्च शस्त्राणां व्यस्मरन् विस्मृतवन्तः ६१३ । अधीगर्थ - १२।३।५२१'
इति कर्मणि षष्ठी । वाजिकुञ्जरमखिन्नमश्रान्तमपि रक्तं न्यष्ठीवत् । '६०१। ष्ठिवु
निरसने' इति भौवादिकस्य ग्रहणम् '२३२० । ष्टिवु कुमु चमां शिति । ७३।७५१
इति दीर्घः । अक्लाम्यत् क्वान्तं च ॥
 
१३५७ - न तान॑गणयन् सर्वान्स्कन्दंश च रिपून्, द्विषः ॥
 
अच्छिन्दन्न॒सिभिस् तीक्ष्णैरभिन्दंस् तोमरैस् तथा ११
न तानित्यादि - तान् सर्वानशुभान्नागणयन् नादृतवन्तः किमेतैरिति । अपि
तु रिपूनास्कन्दन् अभिगतवन्तः । द्विपो राक्षसास्तीक्ष्णैरसिभिररीनच्छिन्दन् छिन्न-
वन्तः । तथा तोमरैस्तीक्ष्णैरभिन्दन् विदारितवन्तः ॥
 
१३५८-न्यकृन्तंश् चक्र-धाराभिस्तुदन् शक्तिभिर् दृढम् ॥
भल्लैर॑विध्यन्नु॑या॒ऽग्ने॑र॑तृ॑ह॑स् तोमरैरैलम् ॥ १२ ॥
 
न्यकृन्तन्नित्यादि - चक्रधाराभिः न्यकृन्तन् छिन्नवन्तः । मुचादित्वान्नुम् ।
शक्तिभिश्च दृढमत्यर्थमतुदन् व्यथितवन्तः । भल्लैरविध्यन् ताडितवन्तः । '२४१२
प्रहि-ज्या - ६।१।१६ ।' इति सम्प्रसारणम् । उग्रायैस्तीक्ष्णायैस्तोमरैरलं पर्याप्तमतं-
हन् हतवन्तः । '१५४९। तृह हिंसायाम् ।' रुधादित्वात् श्रम् । अल्लोपानुस्वारौ ॥
१३५९–आस्यन् प्लवङ्गमा वृक्षानु॑धुन्वन् भू-धरैर् भृशम्, ॥
 
अहिंसन् मुष्टिभिः क्रोधादशन् दशनैरपि ॥१३॥