2026-03-05 04:33:07 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः - ४१३
न्यश्यन्नित्यादि - अभीष्टानि यथानुभावितानि शस्त्राणि न्यश्यन् तेजित-
वन्तः। '१२२०। शो तनूकरणे' । '२५१०। ओतः इयनि । ७।३।७११' इत्योका-
रलोपः । वर्मभिश्च कवचैः समनह्यन् संनद्धाः । शरीराण्यावृतवन्त इत्यर्थः ।
सुयानानि शोभनयानानि अध्यासत आरूढाः । '५४२। अधिशीङ् । १।१।४६ '
इति कर्मसंज्ञा । तथा द्विपच्यो ऽशपन् आक्रुष्टवन्तः 'पापाः क्व यास्यथ' इति ।
"५७२। श्लाघ-हुङ्–।१।४।३४।' इत्यादिना सम्प्रदानसंज्ञा ॥
१३५१- अपूजयंश् चतुर्वक्रं विप्रानचिंस् तथा ऽस्तुवन् ॥
समालिपत शक्रऽरिर्यनं चा ऽभ्यलषद् वरम् ॥५॥
अपूजयन्नित्यादि - चतुर्वक्रं ब्रह्माणमपूजयन् अर्चितवन्तः । विप्रानार्चन्
'दाननमस्कारादिना पूजितवन्तः । तथा अस्तुवन् परस्परं स्तुतवन्तः । शक्रारिश्च
इन्द्रजित् समालिपत समालिप्तवान् । यानं वरमुत्कृष्टमभ्यलपत् अभीष्टवान् ।
*२३२१। वा भ्राश-।३।१।७० ।' इत्यादिना श्यनो विकल्पितत्वात् पक्षे शप् ॥
१३५२–आमुञ्चद् वर्म रत्ना॒ऽऽढ्यमु॑वनात् खड्गर्मुज्ज्वलम्, ॥
अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः ॥ ६॥
आमुञ्चदित्यादि - रत्नाढ्यं रत्नप्रत्युप्तं वर्म कवचमामुञ्चत् शरीर आमुक्त-
चान् पिनद्धवानित्यर्थः । खङ्गं चोज्ज्वलमवनात् कक्षपार्श्वाश्रितं कृतवान् । घोरं
भीपणं स्यन्दनमध्यास्त आरूढः । ततो ऽनन्तरं पुरः पुरतः प्रावर्तत प्रवृत्तः ॥
१३५३ - आघ्नन् भेरीर् महा-स्वानाः,
कम्यूंश् चा ऽप्यधमन् शुभान्, ॥
अताडयन् मृदङ्गांश् च,
पेराश् चा sपूरयन् कलाः ॥ ७ ॥
आघ्नन्नित्यादि - तस्मात् प्रवृत्ताः महास्वानाः महानादाः । '३२३९॥
स्वनहसोर्वा ।३।३।६२।' इत्यप् । भेरीः आघ्नन् ताडितवन्तः । वाढ़का इत्य-
र्थात् । शुभान् सुस्वरान् कम्बून् शङ्खानधमन् शब्दितवन्तः । '२३६०। पा-घ्रा-
१७।३।७८।' इत्यादिना धमादेशः । मृदङ्गांश्चाताडयन् आहतवन्तः । '१६९३।
तड आघाते' इति चुरादिः ॥
१३५४ - अस्तुवन् वन्दिनः, शब्दानन्योन्यं चौदभावयन् ॥
अनदन् सिंहनादांश् च, प्राद्रेकत हय-द्विपम् ॥८॥
अस्तुवन्नित्यादि — बन्दिनः स्तुतिपाठका अस्तुवन् 'जय जीव' इत्यादिना
स्तुतिं कृतवन्तः । अन्योन्यं अन्यस्य अन्यस्य च शब्दान् सांग्रामिकनामानि उद-
भावयन् उद्घाटितवन्तः सैनिका इत्यर्थात् । सिंहनादांश्चानदन् शब्दितवन्तः ।
.