This page has not been fully proofread.

४१२ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे चतुर्थी वर्गः,
 
सप्तदशः सर्गः-
 
इतः प्रभृति लङमधिकृत्य विलसितमाह — तत्र भूतानद्यतने लङ् ततो-
ऽन्यत्र दर्शयिष्यति——
 
१३४७–आशासत ततः शान्तिम॑स्तु॒र॒ग्नीन॑हावयन् ॥
 
विप्रान॑वाचयन् योधाः, प्राक्कुर्वन् मङ्गलानि च ॥१॥
आशासतेत्यादि - ततः प्रतिज्ञानन्तरं योधाः इन्द्रजित्सम्बन्धिन इत्य-
र्थात् । उपद्रवपरिहारार्थं शान्तिमाशासत अभीष्टवन्तः । १०९२ । आङः
शासु इच्छायाम्' इत्यनुदात्तेत् । '२२५८। आत्मनेपदेष्वनतः ।७।१।५।' इत्य-
दादेशः । शान्ति च दर्शयन्नाह--अस्नः स्नाताः । '११२६ । ष्णा शौचे' ।
आत इत्यधिकृत्य । '२४६३ । लङः शाकटायनस्यैव । ३ । ४।११११' इति झेर्जुस् ।
'२२१४। उस्यपदान्तात् । ६।१।९६ ।' इति पररूपम् । अग्नीनहावयन् अभिकर्म
कारितवन्तः । विप्रानवाचयन् स्वस्तिवाचनं कारितवन्तः । मङ्गलानि मङ्गल-
युक्तानि कर्माणि कृतवन्तः ॥
 
१३४८- अपूजयन् कुल - ज्येष्ठानुपागूहन्त बालकान्, ॥
 
स्त्रीः समावर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा.
अपूजयन्नित्यादि - कुलज्येष्ठान् वृद्धानपूजयन् पूजितवन्तः पादपतना-
दिना । बालकानुपागूहन्त आश्लिष्टवन्तः । गतानां किं भविष्यतीति साखा:
स्त्रीः योषितः । '३०२ । वा म्-शसोः ६।४।८०।' इतीयङभावपक्षे रूपम् ।
समावर्धयन् ताम्बूलादिना संवर्धितवन्तः । 'प्रातिपदिकाद्धात्वर्थे' इति णिच् ।
तथा कार्याणि गृहकार्याणि प्रादिशन् निर्दिष्टवन्तः । 'इदमिदं कार्यम्' इति ॥
१३४९ - आच्छादयन्, व्यलिम्पंश च,
प्राश्नन्न॑थ सु॑रा॒ऽऽमिषम्, ॥
 
प्रापिबन् मधु माध्वीकं
 
भक्ष्यांशू चा ऽऽदन् यथेप्सितान् ॥ ३ ॥
आच्छादयन्नित्यादि - आच्छादयन् वस्त्राणि पिनद्धवन्तः । '१८३४। छद
संवरणे' चुरादिः । व्यलिम्पंश्च समालिप्तवन्तः । '१५२७। लिप उपदेहे' ।
'२५४२। शे मुचादीनाम् । ७।१।५९ ।' इति नुम् । '१४०। नश्छव्यप्रशान् ।८।३।७।?
इति रुत्वम् । पूर्वस्यानुनासिकः । अथानन्तरं सुरामिषं प्राश्नन् अभ्यवहृतवन्तः ।
मधुमाध्वीकं मध्वासवं प्रापिबन् सुष्ठु पीतवन्तः । भक्ष्यांश्च खण्डपायसादीन्
यथेप्सितानादन् भक्षितवन्तः । अडित्यनुवृत्तौ' २४२६ । अदः सर्वेषाम् ।७।३।१००।'
इत्यडागमः ॥
 
१३५०–न्यश्यन् शस्त्राण्य॑भीष्टानि, समनह्यंश् च वर्मभिः, ॥
 
अध्यासत सु-यागानि, द्विषच्यश् चा ऽशपंस् तथा ॥४॥