This page has not been fully proofread.

(
 
.
 
तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम पोडशः सर्गः - ४११
 
ज्ञायिष्यन्त इत्यादि - एते च द्विपां गणाः शत्रुसंघाः वीरंमन्याः अद्य
मया ज्ञायिष्यन्ते परिच्छेत्स्यन्ते यादृशा इति । कर्मणि लुट् । चिण्वदिट् । वनौ-
कसां कपीनां गात्रैः [ कृत्तैः ] छिन्नैरद्य क्षितिं गूहिष्यामि ॥
 
१३४६ - आरोक्ष्यामि युगान्त - वारिद-घटा-
संघट्ट- धीर-ध्वनिं
 
निर्यास्यन् रथमुच्छ्रित-ध्वज-धनुः-
 
खड्ग-प्रभा-भासुरम्. ॥
श्रोष्यस्य॑द्य विकीर्ण-वृक्ण-विमुख-
व्यापन्न - शत्रौ रणे
 
तृप्तांशू छोणित- शोण-भीषण-मुखान्
क्रव्याशिनः क्रोशतः ' ॥ ४२ ॥
 
इति भट्टिकाव्ये तिङन्तकाण्डे लविलसितो
नाम षोडशः सर्गः ॥
 
आरोक्ष्यामीत्यादि - अतोऽहं रथमारोक्ष्यामि निर्यास्यन् इतो निर्गच्छन् ।
आरोक्ष्यामीति क्रियायां क्रियार्थायामुपपढ़े निर्यास्यन्निति '२१९३ । लुट् शेपे
च ।३।३।१३।' इति चकाराल्लृद । कीदृशं रथम् । युगान्ते प्रलयकाले या वारि-
दघटास्तासां यः संघट्टः परस्परसंमर्दः तस्येव धीरो गम्भीरो ध्वनिर्यस्य रथस्य ।
उच्छ्रिता ध्वजाः धनूंषि च यत्र । खड्गप्रभाभिश्च भासनशीलो यः । पश्चाद्विशे-
पणसमासः । उच्छ्रितानां वा ध्वजादीनां प्रभाभिर्भासुर इति योज्यम् । चिकीर्णा
इतस्ततो विक्षिप्ताः वृक्णाः छिन्नाः छिन्नमस्तकाः विमुखाः पराङ्मुखा व्यापन्ना
मृताः शत्रवो यस्मिन् रणे । क्रव्याशिनः शृगालादीन् क्रोशतः फूत्कुर्वतः अद्य
श्रोष्यसि । कीदृशान् । तृप्तान् शोणितमांसोपभोगात् । शोणितेन शोणानि
लोहितानि तत एव भीषणानि भयंकराणि मुखानि येषामिति । वृश्चेरोदितो
निष्ठानत्वस्यासिद्धत्वात् चोः कुत्वे वृक्ण इति ॥
 
इति श्री -
जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये -
चतुर्थे तिङन्तकाण्डे लक्षण-रूपे तृतीयः परिच्छेदः (वर्गः )
तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम
षोडशः सर्गः ॥ १६ ॥
 
१ – पद्ये ऽस्मिन् वृत्तं शार्दूलविक्रीडितम् । तलक्षणम् । – 'सूर्याश्चैमं-स-जस्-
त-ताः सगुरवः शार्दूलविक्रीडितम् ।' इति वृत्तरलाकरे भट्टकेदारः ।