This page has not been fully proofread.

४१० भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे तृतीयो वर्गः,
 
१३४१ - ना भिज्ञा ते, स-यक्षेन्द्रं
भङ्क्ष्यावो यद् यमं बलात्, ॥
रत्नानि चां ssहरिष्यावः,
 
प्राप्स्यावश् च पुरीर्मिमाम् ॥ ३७ ॥
 
नाभिज्ञेत्यादि-न सेत्यभिज्ञास्ति । सयक्षेन्द्रं धनदसहितं यमं बलात्
सामर्थ्येन आवां भक्ष्यावः भग्नवन्तौ । रत्नानि च ताभ्यां बलादाहरिष्यावः ।
इमां च पुरीं लङ्कां प्राप्स्यावः । '२७७५ । विभाषा साकाङ्क्ष । ३ । २।११४/१
इति ऌट् । लक्ष्यलक्षणयोः सम्वन्धे प्रयोक्तराकाङ्क्षा । तत्र भञ्जनं लक्षणं
रत्नाद्याहरणं च लक्ष्यम् ॥
 
१३४२ - एष पेक्ष्याम्य॑रीन् भूयो न शोचिष्यसि रावण ! ॥
 
जगद् द्रक्ष्यसि नी- रामम॑वगाहिष्यसे दिशः. ॥३८॥
एष इत्यादि – एपो ऽहं भूयः पुनररीन् पेक्ष्यामि चूर्णयिष्यामि । वर्तमान-
सामीप्ये वर्तमानिकप्रत्ययस्य विकल्पेन: विधानाल्लडेव भवति । येन हे रावण !
न शोचिष्यसि शोकं न करिष्यसि । भविष्यति लृट् । जगत् नीरामं रामरहितं
द्रक्ष्यसि । दिशश्च सर्वा अवगाहिष्यंसे व्याप्स्यसि ॥
१३४३–सह-भृत्यः सुराssवासे भयं भूयो विधास्यसि ॥
 
,
 
प्रण॑स्य त्य॑द्य देवेन्द्रस्त्वां वक्ष्यति स सन्नतिम् ॥ ३९ ॥
सहेत्यादि—भृत्यैः सह सुरावासे स्वर्गे भूयो भयं विधास्यसि करिष्यसि ।
देवेन्द्रश्च त्वां प्रणंस्यति 'त्वदीयो ऽहम्' इति निवेदयिष्यति । वक्ष्यति च.
सन्नतिं भणिष्यति च नमस्कारम् ॥
 
१३४४ - भेष्यते मुनिभिस् त्वत्तस्, त्वमधिष्ठास्यसि द्विषः, ॥
 
· ज्ञास्ये ऽहमद्य संग्रामे समस्तैः शूर-मानिभिः ॥४०॥
 
भेष्यत इत्यादि – मुनिभिस्त्वत्तो भेष्यते भीतैर्भवितव्यम् । भावे लृट् ।
त्वमधिष्ठास्यसि द्विषः शत्रून् परिभविष्यसि । '५४२। अधिशीङ् । १।४।४६ '
इति कर्मसंज्ञा । यादृशश्चाहं तादृशः संग्रामे ज्ञास्ये ज्ञातो भविष्यामि । कर्मणि
ऌट् । कैः समस्तैः शूरमानिभिः वयं शूरा इत्यात्मानं मन्यमानैः । '२९९३॥
आत्ममाने खश्च ।३।२।८३॥ ॥
 
१४४५ - ज्ञायिष्यन्ते मया चा ऽद्य
 
वीरं मन्या द्विषद्-गणाः, ॥
 
गूहिष्यामि क्षितिं कृत्तै-
 
र॑द्य गात्रैर् वनौकसाम् ॥ ४१ ॥