This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः - ४०९
 
युग्मम् ३३,३४–
 
१३३७-प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी ॥
आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः, ॥
प्रागित्यादि - यो ऽयमागामी प्रभातकाल: मुहूर्तद्वयसम्मितः तस्मिंस्त-
स्येति पष्टीसप्तम्योरभेदात् । यो द्वितीयो मुहूर्तः तस्मात् प्राक् प्रथमे मुहूर्ते
अहमवश्यं सुखी भविष्यामि । तदानीं हतशत्रुत्वात् । ततः प्रभातादागामी
यः कालः क्षणद्वयसंमितः तस्मिन्नागामिनि काले यो द्वितीयः तस्माद्यदपरः
क्षणः पूर्वः तत्रेति वक्ष्यमाणेन सम्बन्धः ॥
 
१३३८ – तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं साऽमरम्, ॥
 
ततः परेण भूयोऽपि लङ्कामे॑ष्याम्य॑मत्सरः ॥३४॥'
तत्रेत्यादि - तत्र क्षणे त्रिदशेन्द्रं सहामरं देवैः सहितं जेतुं द्रुतं गमिष्यामि ।
प्राङ् मुहूर्तात् सुखी भविष्यामि । क्षणाद्यदपरं तत्र जेतुं गमिष्यामीति (२७९५ ।
कालविभागे चानहोरात्राणाम् । ३ । ३ । १३७।' इति अनद्यतनवत् प्रत्ययप्रतिषेधे ऌट् ।
तत्र हि '२७९३ । नानद्यतनवत् ।३।३।१३५१' इति 'भविष्यतिमर्यादावचनेऽवर-
स्मिन्' इति चानुवर्तते । तत्र जेतुं कालमर्यादाविभागे सति योऽवर आद्यप्र-
विभागः तत्र भविष्यति काले अनद्यतनवत्प्रत्ययविधिर्न भवति । ततो लट्प्रति-
पेधाल्लुडेव भवति । ततः परेणेति यस्मिन्नागामिनि काले शक्रं जेतुं गमिष्यामि
तत्र द्वितीयो यः क्षणस्तस्मात् परेणोपरिष्टात्तं शक्रं जित्वा भूयो ऽपि लङ्कामे-
ष्यामि । आङ्पूर्वस्येणो रूपम् । अमत्सरो विगतक्रोधः सन् । '१७९३ । परस्मिन्
'विभाषा ।३।३।१३८।' इत्यनेन विभाषालुट्प्रतिषेधालुट् । तत्र हि कालविभागे
सति भविष्यति काले परस्मिन् विभाषा अनद्यतनवत्प्रत्ययविधिर्न भवतीत्युक्तम् ॥
१३३९ - तमेवं वादिनं मूढमि॑िन्द्रजित् समुपागतः ॥
 
'युयुत्सष्ये ऽहमि॑त्यैवं वदन् रिपु-भयं-करः ॥ ३५ ॥
तमित्यादि - तं रावणं मूढत्वादेवंवादिनं एवंभाषणशीलं इन्द्रजित् रिपो-
भयंकरः समुपागतः । युयुत्सिप्ये ऽहं योद्धुमिच्छां करिष्यामीति ब्रुवन् ॥
केन सह योद्धुमिच्छामीति चेदाह -
 
१३४० - ना ऽभिज्ञा ते महाराज !,
जेष्यावः शक्र- पालितम् ॥
दृप्त-देव-गणाऽऽकीर्ण-
 
मा॑वां सह सुरा॒ऽऽलयम्, ॥ ३६ ॥
 
नाभिज्ञेत्यादि - हे महाराज ! ते तव नाभिज्ञा स्मृतिः । सुरालयं शक्रेण
'पालितं दृप्तैश्च देवगणैराकीर्णं व्याप्तम् । आवां द्वावपि सह संभूय जेष्यावः जित-
वन्तौ । '२७७३। अभिज्ञावचने ऌट् । ३ ।२। ११२ ।' तंत्र 'भूतानद्यतने' इति वर्तते
३५