2026-03-05 04:33:06 by ambuda-bot
This page has not been fully proofread.
४०८ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे तृतीयो वर्गः,
मानुष इत्यादि - मामेवं दुर्जयं मानुपो नाम पत्कापी पादाभ्यां गमन-
शीलः पदातिः सन् । '९९२ । हिम- कापि हतिपु च । ६।३।५४।' इति पादस्य पढ़ा-
देशः । · पुरुपाशिनां रक्षसां राजानं दिव्यास्वरथतया दुर्जयं दुरभिभवनीयं
योधयिष्यति ॥
एवं बहुधा विलप्य जातामर्पः पुनराह -
१३३३–सन्नत्स्याम्य॑थवा योद्धुं न कोष्ये सत्त्व-हीन- वत्, ॥
अद्य तर्त्स्यन्ति मांसादा, भूः पास्यत्यरि- शोणितम्.
सन्नत्स्यामीत्यादि - सत्त्वहीनवत् सत्वेन हीन इव न कोष्ये न रोदिमि
'।१११५। कु शब्दे' । योद्धुं सन्नत्स्यामि सन्नाहं करिष्ये ऽहमिति अत्र किंवृत्ते-
sप्यमर्षे लिडपवादो लट् । '४४० । नहो धः ।८।२।३४॥ '१२१ ॥ खरि च
८।४।५५।' इति चर्त्यम् । ततश्चाद्यास्मिन्नहनि मांसादाः क्रव्यादाः तर्त्स्यन्ति तृप्ता-
भविष्यन्ति । '२९७७। अदो नन्ने । ३।२।६८।' इति विटि प्राप्ते वासरूपविधिना
अणपि भवति । भूश्च हतानामरीणां शोणितं पास्यति । '२८०८। शेषे लुट्
।३।३।१५१।' ॥
१३३४ – आकर्ष्यामि यशः, शत्रूनपनेष्यामि कर्मणा ॥
अनुभाविष्यते शोको मैथिल्या ऽद्य पति-क्षयात्. ॥३०॥
आकर्ष्यामीत्यादि — सर्वयोद्धृणां यश आकमि आहरिष्यामि । शत्रूंश्च
कर्मणा युद्धाख्येनापनेष्यामि न्यूनयिष्यामि । अद्य पतिक्षयात्पतिविनाशात् शोको
मैथिल्या सीतया अनुभाविष्यते संवेदयिष्यते । कर्मणि लुट् चिण्वदिट् ॥
१३३५ –मन्तूयिष्यति यक्षेन्द्रों, वल्गूयिष्यति नो यमः ॥
ग्लास्यन्त्य-पति-पुत्राश् च वने वानर - योषितः ॥३१॥
मन्तूयिष्यतीत्यादि — यक्षेन्द्रो धनदः दाशरथिमापनं श्रुत्वा मन्तूयि-
प्यति दुर्मना भविष्यति । यमश्च न वल्गूयिष्यति हृष्टमना न भविष्यति । मन्तु-
वल्गुशब्दाभ्यां । '२६७८। कण्ड्वादिभ्यो यक्
॥३।१।२७।' तदन्तात् लट् । बने
वानरयोपितः अपतिपुत्राः सत्यः ग्लास्यन्ति ग्लानिं यास्यन्ति ॥
१३३६ - सुखं स्वप्स्यन्ति रक्षांसि,
भ्रमिष्यन्ति च निर्भयम्, ॥
न विक्रोक्ष्यन्ति राक्षस्यो,
नरांश् चा ऽत्स्यन्ति हर्षिताः ॥
सुखमित्यादि - रक्षांसि चैतानि सुखं स्वप्स्यन्ति निर्भयं च
राक्षस्यश्च न विक्रोक्ष्यन्ति न क्रन्दिष्यन्ति । ९१३। क्रुश आह्वाने
हर्षिताश्च सत्यो नरानत्स्यन्ति भक्षयिष्यन्ति ॥ ·
३२ ॥
भ्रमिष्यन्ति ।
रोदने च' ।