This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः- ४०७
१३२७–ना ऽनुरोत्स्ये जगल्-लक्ष्मीं, घटिष्ये जीवितुं न वा ॥
 
न रंस्ये विषयैः शून्ये भवने वान्धवैर॑हम् ॥ २३ ॥
नानुरोत्स्य इत्यादि - जगलक्ष्मीं नानुरोत्स्ये न कामयिष्ये । अनो रुधिः
कामे । जीवितुं वा न घटिव्ये प्रयत्नं न करिष्यामि । तस्माद्भवने बान्धवैः शून्ये
विषयैः शब्दादिभिर्न रंस्ये न क्रीडां करिष्ये ॥
 
१३२८ - मोदिष्ये कस्य सौख्ये ऽहं को मे मोदिष्यते सुखे, ॥
 
आदेयाः किंकृते भोगाः कुम्भकर्ण ! त्वया विना. २४
मोदिष्य इत्यादि - हे कुम्भकर्ण ! त्वया विना कस्य सौख्ये अहं मोदिप्ये
हर्षिष्ये न कस्यचित् । मम वा सुखे सति को मोदिष्यते हृष्टो भविष्यति न
कश्चिदपि किंकृते किंनिमित्तं परभोगा आदेयाः आदातव्याः ॥
 
तदेव दर्शयन्नाह--
 
१३२९–याः सुहृत्सु विपन्नेषु मामुपैष्यन्ति संपदः, ॥
 
ताः किं मन्यु-क्षताऽऽभोगा न विपत्सु विपत्तयः. २५
या इत्यादि - सुहृत्सु स्निग्धेषु विपन्नेषु या: सम्पदो विभूतयः समुपैष्यन्ति
निष्पत्स्यन्ते ताः मन्युक्षयाभोगाः शोकैः खण्डिताभोगाः किं विपत्सु न विपत्तयः
क्षतक्षारसंस्थानीया भवन्तीति ॥
 
१३३० - 'विनङ्क्ष्यति पुरी क्षिप्रं, तूर्णमैष्यन्ति वानराः, ॥
 
अ-सन्धित्सोस् त' त्यैतद् विभीषण- सुभाषितम्. २६
विनङ्क्ष्यतीत्यादि - असन्धित्सोः रामेण सन्धानमनिच्छो: क्षिप्रमेषा पुरी
लङ्का विनङ्क्ष्यति । '२५१७। मस्जि नशो :- ।७।१।६०।' इति नुम् । ततः तूर्णं
वानरास्तां समेष्यन्ति । उभयत्रापि '२७९१। क्षिप्रवचने ऌट् ।३।३।१३३।' ।
तदेतद्विभीषणभाषितं सर्वमुपपन्नम् । धमं निर्णीय तेनोक्तं 'सन्धानमेवास्तु परैः'
इत्यादिना ॥
 
१३३१ - 'अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम्, ॥
 
संयोत्स्यामह,' इत्येतत् प्रहस्तेन च भाषितम् ॥२७॥
अर्थेनेत्यादि - राज्ञा वयमर्थेन भृताः ततो न भाषिष्यामहे किमन्त्र युक्त-
मिति एतत्प्रहस्तेन भाषितं तच्च तथैव सम्पादितम् । स्मशब्दो ऽत्र निपातः । यद्य-
पीदृशं मन्त्रनिर्णये प्रहस्तेन नोक्तं 'सन्धानमेवास्तु परैः' इत्यादिना, तथापि विभी-
पणवचनादनुमीयते तेनाप्ययमर्थोऽभ्युपगत इति रावण एवमाह । तथाच
'विभीषणवचनं 'युद्धाय राज्ञा सुभृतैः' इत्यादि ॥
 
१३३२ – मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम् ॥
 
योधयिष्यतिं संग्रामे दिव्याऽस्त्र-रथ- दुर्जयम्. ॥२८॥