2026-03-05 04:33:05 by ambuda-bot
This page has not been fully proofread.
४०६ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे तृतीयो वर्गः,
१३२२ - कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते ॥
संभावितानि नैतानि कदाचित् केनचिज् जने ॥ १८ ॥
कुम्भकर्ण इत्यादि - कुम्भकर्णो रणे क्रुद्धः सन् पुंसा परिभविष्यते । कर्मणि
लुट् । एतानि भानुपतनादीनि कुम्भकर्णपरिभवान्तानि जने लोके केनचित् नः
संभावितानि न चिन्तितानि ॥
१३२३ - कुम्भकर्णे हते लङ्का-
मरोक्ष्यन्ति प्लवङ्गमाः,
॥
दक्ष्यन्ति राक्षसान्, हप्ता
भक्ष्यन्ति च ममा ऽऽश्रमान् ॥ १९ ॥
कुम्भकर्ण इत्यादि — कुम्भकर्णे इत्थं हते सति लवङ्गमाः लङ्कामारोक्ष्यन्ति
आक्रमिष्यन्ति । '९१६। रुह बीजजन्मनि' । राक्षसान् दक्ष्यन्ति दशनैः छेत्स्य-
न्ति । दृप्ताश्च ममाश्रमान् गृहान् भक्ष्यन्ति चूर्णयिष्यन्ति ॥
।
१३२४-चर्त्स्यन्ति बाल-वृद्धांशू च, नर्त्स्यन्ति च मुदा युताः ॥
तेन राक्षस- मुख्येन विना तान् को निरोत्स्यति. २०
चर्न्यन्तीत्यादि - बालान् वृद्धांश्च चत्स्यन्ति व्यापादयिष्यन्ति ।' १४११
वृती हिंसा-प्रन्धनयो:' इति तौदादिकः । मुदा हर्षेण युताः सन्तः नर्त्स्यन्ति ।
'११९१। नृती गात्रविक्षेपे ।' '२५०६। सेसिचि - १७/२/५७१' इत्यादिना विकल्पे-
नेट् । तेन च राक्षसमुख्येन बिना तानू को निरोत्स्यति निवारयिष्यति ॥
१३२५ - अमर्षो मे परः, सीतां राघवः कामयिष्यते ॥
च्युत-राज्यात् सुखं तस्मात् किं किला ऽसाव॑वाप्स्यति.
अमर्ष इत्यादि — अमर्षः क्रोधः पर उत्कृष्टः मम यद्राघवः सीतां कामयि-
ध्यते। कर्मणि ऌद् । तदन्तात्, '२८०२। अनवक्लृत्यमर्षयोरकिंवृत्तेपि ।३।३।१४५॥
इति अमर्षे क्रोधे लट् । अन्यच्च च्युतराज्यात्तस्मात् रामादसौ सीता किं किल नाम.
सुखमवाप्स्यति तन्न सम्भावयामि । '२८०३। किंकिलास्त्यर्थेषु ऌट् ।३।३।१४६।'
इति अनवक्लृप्तावसंभावनायां लद ॥
१३२६ - मारयिष्यामि वैदेहीं, खादयिष्यामि राक्षसैः, ॥
भूमौ वा निखनिष्यामि विध्वंसस्या ऽस्य कारणम्.२२
मारयिष्यामीत्यादि - अथवा अस्य सर्वस्य विध्वंसस्य विनाशस्य कारणं
वैदेहीं मारयिष्यामि व्यापादयिष्यामि । एतैर्वा राक्षसैः खादयिष्यामि भोजयि-
ष्यामि । '५४०। गति-बुद्धि - 1१1४।५२ ।' इत्यादिना प्रत्यवसानार्थे कर्मसंज्ञायां
प्राप्तायाम् 'आदिखाद्योः प्रतिषेधः' इति कर्तृसंज्ञेव भवति । भूमौ वा निख-
निष्यामि ॥