This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके रावण-विलापो' नाम षोडशः सर्गः - ४०५
 
हनिष्यामि रिपूंस् तूर्ण,
 
न जीविष्यामि दुःखितः ॥ १३ ॥
 
.
 
मरिष्यामीत्यादि - यदि मम तनयाः हताः तदा मरिष्यामि, शत्रून् वा
विजेष्ये । '२५३८। म्रियतेर्लुङ्- लिङोः । १।३।६११' इति नियमात्तङ् न भवति ।
उत्तरन '२६८५। वि-पराभ्यां जेः ।१।३।१९।' इति तङ् । ततो रिपून् तूर्ण हनि-
प्यामि । पुनर्वन्धुं विनाकृतत्वात् दुःखितः सन् न जीविष्यामि ॥
१३१८ - स्मेष्यन्ते मुनयो, देवाः
कथयिष्यन्ति चाऽनिशम् ॥
'दश-ग्रीवस्य दुनीतेर्
 
विनष्टं रक्षसां कुलम्.' ॥ १४ ॥
 
स्मेप्यन्त इत्यादि - मुनयो हर्पात् स्मेप्यन्ते हसिष्यन्ति । ङित्वात्तङ् । देवा
अनिशं कथयिष्यन्ति । यथा दशग्रीवस्य दुर्नीतेर्दुर्नयात् रक्षसां कुलं विनष्टम् ॥
१३१९ - केन सम्भावितं तात - कुम्भकर्णस्य राघवः ॥
 
रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति ॥१५॥
केनेत्यादि - हे तातेति शोकात् बुद्धिस्थं पितरमभिमुखीकरोति केनैतत्स-
म्भावितं निश्चितम् । यत् कुम्भकर्णस्य गात्राणि रणे राघवः कर्त्स्यति छेत्स्यति ।
'१५२९ । कृती छेढ़ने' । मर्माणि वितर्त्स्यति अपनेष्यति । '१५४० । उतृदिर् हिंसा-
ऽनादरयोः' । '२५०६। सेसिचि -१७/२/५७१' इत्यादिना इड्डिकल्पः ॥
१३२० - पतिष्यति क्षितौ भानुः, पृथिवी तोलयिष्यते ॥
 
नभस्त्रान् भक्ष्यते व्योम मुष्टिभिस् ताडयिष्यते. १६
पतिष्यतीत्यादि - क्षितौ भूमौ भानुरादित्यः पतिष्यति अधो गमिष्यति ।
पृथिवी तोलयिष्यते ऊर्ध्वं क्षेप्स्यते । '१७१६। तुल उन्माने' चुरादावदन्तेषु च
पठ्यते । कर्मणि लुट् । नभस्वान् वायुः काष्ठवद्भक्ष्यते कर्मणि लुट् । मुष्टिभिव्योंम
ताडयिष्यते हनिष्यते ॥
 
१३२१ – इन्दोः स्यन्दिष्यते वह्निः, समुच्छोक्ष्यति सागरः, ॥
 
जलं धक्ष्यति, तिग्मांशोः स्यन्त्स्यन्ति तमसां चयाः. १७
इन्दोरित्यादि – इन्दोः वह्निः स्यन्दिष्यते प्रस्रविष्यति।'२३४७। वृद्भ्यः स्य-
सनोः।१।३।९२।' इति परस्मैपदविकल्पः । सागरः समुच्छोक्ष्यति शोपं यास्यति ।
जलं धक्ष्यति भस्मसात् करिष्यति । '१०६०। दह भस्मीकरणे' । '३२४ हो ढः
।८।२।३१।' । '३२६। एकाचो बशो भप्-८।२।३७।' इति भष्भावः । तिग्मां-
शोरादित्यात्तमसां चयाः तमःसंघाः स्यन्त्स्यन्ति । स्यन्देः पूर्ववत्परस्मैपदविकल्पः
।'२३४८। न वृद्भ्यः-।७।२।५९१' इतीट्प्रतिषेधः ॥