This page has not been fully proofread.

४०४ भट्टिकाव्ये - चतुर्थी तिङन्तकाण्डे लक्षण-रूपे तृतीयो वर्गः,
 
उन्मीलिप्यतीत्यादि - मे मम चक्षुर्वृथा निष्फलमुन्मीलिप्यति । यद्य-
स्मात् विनयागतं विनीतम् । आज्ञालाभोन्मुखम् । नत्रं नमनशीलम् । नरा-
न्तकं पुत्रं न द्रक्ष्यति ॥
 
१३१३ - धिङ्ग मां, त्रिशिरसा ना ऽहं
सन्दर्शिष्ये ऽद्य यत् पुनः, ॥
घानिष्यन्ते द्विषः केन
 
तस्मिन् पञ्चत्वमागते. ॥ ९ ॥
 
धिङ मामित्यादि - यत् त्रिशिरसा अद्य पुनरपि नाहं सन्दर्शिष्ये न दृष्टो
भविष्यामि । कर्मणि ऌट् चिण्वदिट् च । तस्मिन् त्रिशिरसि पञ्चत्वमागते मृते
द्विषः शत्रवः केन घानिष्यन्ते । अत्रापि चिण्वदिट् च ॥
 
१३१४ - शत्रुभिर् निहते मत्ते द्रक्ष्ये ऽहं संयुगे सुखम्, ॥
 
युद्धोन्मत्ताद् विना शत्रून् समास्कन्त्स्यति को रणे. १०
शत्रुभिरित्यादि - मत्ते मत्तनान्नि शत्रुभिर्निहते । तैरेव शत्रुभिः संयुगे
सुखमहं द्रक्ष्ये द्रष्टव्यो ऽस्मि पूर्वं भयाद्दृष्टः । अचिण्वद्भावपक्षे रूपम् । तस्य च
भ्रातुर्युद्धोन्मत्ताद्विना रणे शत्रून् कः समास्कन्त्स्यति अभियास्यति । '१०४८१
स्कन्दिर् गति - शोषणयो:' । '१२१। खरि च ।८।४।५५।' इति चर्व्वम् ॥
१३१५-आह्वास्यते विशङ्को मां योत्स्यमानः शतक्रतुः ॥
 
प्रकल्प्स्यति च तस्या ऽर्थो निकुम्भे दुरम्हणे हते. ११
आह्नास्यत इत्यादि -- शतक्रतुरिन्द्रः योत्स्यमानः युद्धं करिष्यन् विशङ्को
निर्भयः मां युद्धायाह्वास्यते । '२७०४ । स्पर्धायामाङः । १।३।३१।' इत्यात्म-
नेपदम् । निकुम्भे दुर्हणे दुःखेन हन्यत इति । '३३०५ । ईषत् - । ३ । ३।१२६॥
इत्यादिना खल् । तस्मिन् हते तस्य शतक्रतोरर्थः निष्कण्टकराज्यलक्षणः प्रक-
ल्प्स्यति संपत्स्यते ॥
 
१३१६ - कल्पिष्यते हरेः प्रीतिर्, लङ्का चौपहनिष्यते, ॥
 
देवान्तक ! त्वया त्यक्तो रिपोर् यास्यामि वश्यताम् ॥
कल्पिष्यत इत्यादि — शत्रुभिः कुम्भं च निपातितं श्रुत्वा हरेरिन्द्रस्य
प्रीतिः कल्पिष्यते भविष्यति । '२३५१। लुटि च क्लृपः । १।३।९३।' इति चकारा-
त्स्य-सनोरपि परस्मैपदविकल्पः । आत्मनेपदे च नेट्प्रतिषेधः । लङ्का च शत्रुभि-
रुपहनिष्यते विलोप्स्यते । कर्मणि लुट् । अचिण्वद्भावपक्षः । '२३६६। ऋद्धनोः
स्ये ।७।२।७०।' इतीट् । इह सुरैरागंस्यते । भावे ऌट् ॥
 
"
 
१३१७ - मरिष्यामि, विजेष्ये वा,
हताश चेत् तनया मम, ॥