This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम पोडशः सर्गः– ४०३
 
पूजयिष्यति । स्वयम्भूर्ब्रह्मा कस्य तोक्ष्यति प्रीतिं जनयिष्यति । '१२६० । तुष
प्रीतौ' । २९५। प-ढोः कः सि ।८।२।४१।' ॥
 
१३०८ - श्लाघिष्ये केन, को बन्धून् नेष्यत्युन्नतिमुन्नतः, ॥
 
कः प्रेष्यति पितॄन् काले, कृत्वा कत्थिष्यते न कः. ४
श्लाघिष्य इत्यादि - केनाहं श्लाघिये श्लाघां करिष्यामि ' ममेदृशः पुत्रः '
इति । कः स्वगुणैरुन्नतः सन् बन्धूनुन्नतिं परां कोटिं नेप्यति । काले पितृक्रि-
योचिते कः पितॄन् प्रेष्यति तर्पयिष्यति । '१५६९ । प्रीञ् तर्पणे' । कृत्वा किंचि-
त्कार्यम् । को न कत्थिष्यते कत्थनां न करिष्यति । 'अहमेवंविधः' इति ।
अतिकायाद्विनेति सर्वत्र योज्यम् ॥
 
१३०९ - उद्यंस्यति हरिर् वज्रं, विचरिष्यति निर्भयः, ॥
 
भोक्ष्यते यज्ञ-भागांश् च, शूर-मानं च वक्ष्यति ॥५॥
उद्यस्यतीत्यादि - तथा हरिरिन्द्रः हन्तुं वज्रमुद्यंस्यति उद्धारविष्यति ।
उत्पूर्वाद्यमे रूपम् । निर्भयश्चेतस्ततो विचरिष्यति । यज्ञभागांश्चात्मीयान् भोक्ष्यते
भक्षयिष्यति । '२७३७ । भुजो ऽनवने ।१।३।६६ ।' इति तङ् । शूरमानं च
'शूरो sस्मि' इति वक्ष्यति धारयिष्यति । वहेः '३२४। हो ढः ।८।२।३११' ।
'२९५॥ प-ढोः कः सि । ८।२।४१॥ ' ॥
 
"
 
१३१० - रविस् तप्स्यति निः शङ्कं वास्यत्य॑नियतं मरुत्, ॥
निर्वर्त्यत्यृ॒तु-संघातः, स्वेच्छ्ये॑न्दु॒रु॑दे॒ष्यति. ॥ ६ ॥
रविरित्यादि - रविः निःशङ्कं शङ्कां बिना तप्स्यति द्योतिष्यते । मरुच्चानियतं
स्वच्छन्दो वास्यति । '११२४। वा गति-गन्धनयोः' । ऋतुसंघातः पडृतवः निर्व-
ति सर्वदा न भविष्यति । '२३४७।' वृद्भ्यः स्य- सनोः । १।३।९२ ।' इति
विकल्पः । '२३४८। न वृद्भ्यश्चतुर्भ्यः । ७।२।५९ ।' इतीट्प्रतिषेधः। स्वेच्छयेन्दुरुदे-
व्यति सदा. पूर्णमण्डलो नोद्गमिष्यति । '१११८। इण् गतौ' ॥
१३११ - तीव्रं स्यन्दिष्यते मेधैरुग्रं वर्तिष्यते यमः, ॥
 
अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा ॥७॥
तीव्रमित्यादि - मेधैस्तीव्रं अतिशयेन स्यन्दिष्यते पूर्वं रजः प्रशमनमात्रं
वृष्टम् । भावे ऌट् । '२३४८। न वृद्ध्यः - ७१२/५९।' इतीट्प्रतिपेधो न भवति
तत्र परस्मैपदग्रहणमनुवर्तते । यमः उग्रं वर्तिष्यते रौद्रं चरिष्यति । आत्मनेपदे
नेदप्रतिषेधः । अतिकायस्य मरणे सति इन्द्रादयः किमन्यथा विपर्ययं नः
करिष्यन्ति किन्तु करिष्यन्तीति । 'किं भविष्यति नान्यथा' इति पाठान्तरम् ।
तत्र सर्वमेतद्भविष्यतीत्यर्थः ॥
 
.
 
१३१२ – उन्मीलिष्यति चक्षुर् में वृथा, यद् विनया॒ऽऽगतम् ॥
 
आज्ञा-लाभा॒न्मुखं नम्रं न द्रक्ष्यति नरान्तकम् ॥८॥