This page has not been fully proofread.

४०२ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे : लक्षण-रूपे तृतीयो वर्गः,
 
हस्वादङ्गात् ।८।२।२७।' इति सिचो लोपः । विटपहरिणनाथः शाखामृगाणां
नाथः नित्यां सिद्धिमवश्यं भाविनीमोहिष्ट तर्कितवान् । नृपतिमतिः रामस्य
बुद्धिः प्राप्तकामेव संपन्नेच्छेव रावणवध-सीतालाभयोः सिद्धिरूपत्वात् । हपी-
दरंस्त रमते स्म । रजनिचरपतीनां मेघनादादीनां शोकः सन्ततोऽविच्छिन्नः
अतायि वर्धते स्म । '२३२८ । दीप-जन - । ३।१।६११' इत्यादिना कर्तरि चिण् ॥
इति श्री - जयमङ्गलाSSख्यया व्याख्यया समलंकृते श्री- भट्टिकाव्ये-
चतुर्थे तिङन्तकाण्डे लक्षण-रूपे द्वितीयः परिच्छेदः (वर्गः),
तथा लक्ष्यरूपे कथानके 'कुम्भकर्ण वधो' नाम
पञ्चदशः सर्गः ॥ १५ ॥
 
षोडशः सर्गः-
 
इतः प्रभृति लुटमधिकृत्य विलसितमाह - तन्त्र' २१९३। लद शेषे च ।३।३।१३
इति । ततो ऽन्यत्रापि दर्शयिष्यति ॥
 
१३०५ - ततः प्ररुदितों राजा रक्षसां हंत- बान्धवः ॥
 
'किं करिष्यामि राज्येन, सीतया किं करिष्यते ॥१॥
 
तत इत्यादि - ततो ऽनन्तरं रक्षसां राजा रावणः हतबान्धवः व्यापादितः
भ्रातृत्वात् शोकाभिभूतः सन् प्ररुदितः क्रन्दितुमारब्धः । 'किं करिष्यामि'
इत्यादिना । '३०५३। आदिकर्मणि क्तः - ।३।४।७११' अतिकाये वीरे हते किं
करिष्यामि राज्येन, न किंचित् । '२३६६ । ऋद्धनोः स्ये । ७।२।७०।' इतीद ।
सीतया च किं करिष्यते, न किंचित् ॥
 
१३०६ - अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम् ॥
 
हेपयिष्यति कः शत्रून्, केन जायिष्यते यमः ॥२॥
 
.
 
अतीत्यादि - वीरे अतिकाये हते जीवितुमेव नोत्सहे किमन्यत्कर्तुम् ।
शक्तः पलायनेन कः पयिष्यति लजयिष्यति । २५७० । अर्ति-ही-१७।३।३६।
इत्यादिना णौ पुगन्तगुणः । केन यमः जायिष्यते । '६०२। जि जये' । कर्मणि
ऌट् । '२७५७। । स्य-सिघं - १६।४।६२।' इत्यादिना चिण्वदिट् च ॥
 
१३०७ - अतिकायाद् विना पाशं
को वा छेत्स्यति वारुणम्, ॥
 
रावणं मंस्यते को वा,
 
स्वयम्भूः कस्य तोक्ष्यति ॥ ३ ॥
 
अतीत्यादि - '६०३ । पृथग्-विना - । २।३।३२।' इति पञ्चमी । अतिकाया-
द्विना वारुणं पाशं को वा छेत्स्यति द्विधा करिष्यति । को वा रावणं मंस्यते