This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ४०१
 
प्रौर्णावीदित्यादि - प्रोर्णावीत् छादितवानित्यर्थः । ' २४४७॥ विभाषोर्णोः ।
'१२३।' इत्यकित्वपक्षे रूपम् । स च निशाचरस्तान्नगान् शरवर्षेणापौहीत् निर-
स्तवान् । 'उपसर्गादस्यत्यूह्योर्वावचनम्' इत्यात्मनेपदविकल्पः । रामश्च तद्धनुष्कौ-
शलं दृष्ट्वा अङ्गदं रक्षितुं तूर्णं वानरानैजिहत् व्यापारितवान् । इहतिर्ण्यन्तः ॥
१३०१ - द्रुतम॑त्रास्त सुग्रीवो भ्रातृव्यं शत्रु-संकटात् ॥
 
मुष्टिना कौम्भकर्ण च क्रुद्धः प्राणैरतित्यजत्. ॥१२०
द्रुतमित्यादि - सुग्रीवस्तस्माच्छत्रुसंकटात् भ्रातृव्यं भ्रातुरपत्यम् । '११६७।
'भ्रातुर्व्यच्च ।४।१।१४४।' । द्रुतमन्त्रास्त रक्षितवान् । अग्रतो भूत्वा । '१०३४ ।
त्रैङ् पालने । कौम्भकाणै कुम्भं क्रुद्धः सन् मुष्टिना प्राणैरतित्यजत् त्याजित-
त्रान् । त्यजिर्ण्यन्तः ॥
 
१३०२ - निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः, ॥
 
हनूमांश्चाऽऽप्रतन्तं तमभाङ्क्षीद् भोगि-भीषणम् ॥
निकुम्भ इत्यादि -- ततो भ्रातृवधात् निकुम्भो वानरस्य सुग्रीवस्य परिघं
आहैपीत् प्रहितवान् । '१३३७। हि गतौ ।' परिघमापतन्तं निकुम्भात् । भोगि-
'भीषणं अहिवत् भीषणम् हनूमानभाङ्क्षीत् भग्नवान् ॥
 
१३०३ - प्रौर्णुवीत् तेजसाऽरातिम॑रासीच् च भयंकरम्, ॥
 
ग्रीवां चाऽस्य तथाक्राक्षीद॑जिजीवद् यथा न तम्. ॥
 
प्रौणुवीदित्यादि - परिघं च हनूमान् तेजसा प्रौर्णुवीत् अभिभूतवान् ।
कित्वादवृद्धिपक्षे रूपम् । भयंकरं चारासीत् शब्दितवान् । अस्य च निकुम्भस्य
ग्रीवां तथाक्राक्षीत् आकृष्टवान् । अमागमपक्षे रूपम् । यथा तं नाजिजीवत्
न जीवति स्म । ग्रीवामाकृष्यैव व्यापादितवानित्यर्थः । '३१५७॥ भ्राज-भास-
।३।२।१७७१' इत्यह्रस्वपक्षः ॥
 
१३०४ - समगत कपि- सैन्यं सम्मदेना ऽतिमात्रं,
 
विटप-हरिण-नाथः सिद्धिमौहिष्ट नित्याम्, ॥
नृ-पति- मतिरंरंस्त प्राप्त - कार्मेव हर्षात्,
रजनि-चर-पतीनां सन्ततो ऽताथि शोकः ॥ १२३ ॥
इति भट्टिकाव्ये तिङ्-काण्डे लुङ्-विलसितो नाम
पञ्चदशः सर्गः ॥ १५ ॥
 
समगतेत्यादि - प्रधानयोधा निहता इति सम्मदेन हर्पेणातिमात्रमत्यर्थ
समगत संगतं कपिसैन्यम् । २६९९ । समो गम्यृच्छि-।१।३।२९।' इति तङ् ।
'२७०० वा गमः।१।२।१३ ।' इति सिचः कित्वे ऽनुनासिकलोपः । '२३६९ ।