This page has not been fully proofread.

४००
 
भट्टिकाव्ये - चतुर्थे प्रसन्न -काण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
स्म । अजादेरङ्गस्य । '२२५४। आडजादीनाम् ।६।४।७२ ।' । परयोरनङ्गत्वाच
'२३२६। उपसर्गस्यायत्तौ ।८।२। १९।' इति लत्वम् । क्षतं च खण्डितं त्
रक्तमच्युतत् क्षरति स्म । '२२६९ । इरितो वा । ३।११५७१' इत्यङ् । हतं च
निहतं सत् गामध्यशयिष्ट भूमौ पतितम् । ५४२। अधिशीङ् - 1१1४४६१
इति कर्मसंज्ञा ॥
 
१२९६-अङ्गदेना ऽहसातां तौ युध्य॑कम्पन- कम्पनौ, ॥
 
अभ्यादद् वालिनः पुत्रं प्रजङ्घो ऽपि स मत्सरः. ११५
अङ्गदेनेत्यादि–अकम्पनः कम्पनश्च तौ । ज्येष्ठत्वात् पूर्वनिपातः । युधि
संग्रामे अङ्गदेन अहसाताम् । कर्मणि लुङ् । '२६९६। आत्मनेपदेष्वन्यतरस्याम्।
२।४।४४।' इति बधादेशाभावपक्षे रूपम् । प्रजङ्घो नाम राक्षसः समत्सरः
सक्रोधः वालिनः पुत्रमभ्यादींत् प्रहृतवान् । '१९६८। अर्द हिंसायाम्' ॥
१२९७– तस्या ऽप्य॑वेभिदिष्टाऽसौ मूर्धानं मुष्टिना ऽङ्गदः, ॥
 
अहार्षीच् च शिरः क्षिप्रं यूपाक्षस्य निराकुलः ॥ ११६॥
तस्येत्यादि - तस्य प्रजङ्घस्यापि मूर्धानमसावङ्गदो मुष्टिनावेभिदिष्ट अत्यर्थ
भिन्नवान् । भिदेर्यङन्तस्य '२३०८। अतो लोपः । ६।४।४८।' । '२६३१॥ यस्य
हलः ।६।४।४९।' इति यलोपे रूपम् । निराकुलश्च नाम वानरः यूपाक्षस्य
राक्षसस्य शिरः क्षिप्रमहार्षीत् छिन्नवान् ॥
 
१२९८- शरीरं लोहिताक्षस्य न्यभ्याङ्क्षीद् द्विविदस् तदा ॥
 
क्रुद्धः कुम्भस् ततो ऽभैत्सीन् मैन्दं स - द्विविदं शरैः ॥
 
शरीरमित्यादि - द्विविदो नाम वानरो लोहिताक्षस्य शरीरं न्यभाक्षीत्
चूर्णितवान् । '१५४७। भञ्जो आमर्दने' । ततो ऽनन्तरं कुम्भकर्णसुतः मैन्द्रं
वानरं सद्विविदं द्विविदेन सह शरैरभैत्सीत् भिन्नवान् ॥
 
युग्मम्
 
१२९९ - आघूर्णिष्टां क्षतौ, क्ष्मां च तावशिश्रियतामुभौ ॥
 
मातुलौ विह्वलौ दृष्ट्वा कुम्भं वालि-सुतो नगैः॥११८॥
आघूर्णिष्टामित्यादि - तावुभौ क्षतौ आघूर्णिष्टां चक्रवद् भ्रान्तौ । क्ष्मां
च भूतलमाशिश्रयतां आश्रितवन्तौ । भूमौ पतितावित्यर्थः । '२३१२। णि-नि-
।३।१।४८।' इत्यादिना चङ् । तौ च ताराभ्रातृत्वात् मातुलौ विह्वलौ दृष्ट्वा
वालिसुतो नगैर्वृक्षैः कुम्भं प्रौर्णावीदिति वक्ष्यमाणेन सम्बन्धः ॥
१३०० - प्रौर्णावीच्, छर-वर्षेण तान॑पौहीन् निशाचरः. ॥
 
वानरानै जिहद् रामस् तूर्णं रक्षितुर्मङ्गदम्. ॥११९॥