This page has not been fully proofread.

तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ३९९
 
१२९१ - अजिह्वदत् स काकुत्स्थौ,
शेषांश् चा ऽजीजिवत् कपीन् ॥
हनूमानथ ते लङ्का-
 
मंग्निना दीदिपन् द्रुतम् ॥ ११० ॥
 
अजिह्नददित्यादि - एवं च सति हनूमान् काकुत्स्थावजिह्वदत् ह्रादित-
वान् । '२७। ह्लादी सुखे' ण्यन्तः । शेषांश्च कपीनजीजिवत् जीवयति स्म ।
अथ ते जीविताः सन्तः लङ्कां द्रुतमदीदिपन् दीपितवन्तः । '२५६५॥ भ्राज-
।७।४।३।' इत्यादिना ह्रस्वपक्षे रूपम् ॥
 
१२९२- समनात्सीत् ततः सैन्यम॑माजद् भल्ल-तोमरम्, ॥
 
अमार्क्षीच् चा ऽसिपत्राऽऽदीन॑वभासत् परश्वधान्. ॥
समनात्सीदित्यादि —–ततः सैन्यं समनात्सीत् सन्नद्धम् । '४४०। नहो
'धः ॥८॥३४।' इति धत्वम् । हलन्तलक्षणा वृद्धिः । भल्लतोमरममार्जीत्
शोधितवान् । मृजेरुदित्त्वात् पक्षे रूपम् । असिपत्रादीनमार्क्षीत् । इडभावे
रूपम् । उभयत्रापि '२४७३ । मृजेर्वृद्धिः । ७।२।११४ । । परश्वधानवभासत्
दीपितवान् । '२५६५॥ भ्राजभास - ।७।४।३।' इति ह्रस्वपक्षे रूपम् । अभा-
सीच्चेति पाठान्तरम् । तत्रान्तर्भावितो ण्यर्थः ॥
 
१२९३ - कुम्भकर्ण - सुतौ तत्र समनद्धां महाबलौ ॥
 
निकुम्भश चैव कुम्भश् च, प्रापतां तौ प्लवङ्गमान् ॥
कुम्भकर्णेत्यादि — कुम्भश्चैव निकुम्भश्च कुम्भकर्णसुतौ महाबलौ तत्र सैन्ये
समनद्धां सन्नद्धौ । तौ च लवङ्गमान् प्रापतां प्राप्तवन्तौ । लुदित्त्वादङ् ॥
१२९४ - अगोपिष्टां पुरीं लङ्कामगौप्तां रक्षसां वलम्, ॥
 
अत्यक्तामा॑यु॒धा॒ऽनीकर्मनैष्टां च क्षयं द्विषः ॥ ११३॥
अगोपिष्टामित्यादि - लङ्कां च पुरीं अगोपिष्टां रक्षितवन्तौ । गुपेरूदित्वा-
दिट्ट्पक्षे रूपम् । अगौप्तामितीडभावपक्षे रूपम् । हलन्तलक्षणा वृद्धिः । '२२८१ ।
झलो झलि ।८।२।२६।' इति सिचो लोपः । आयुधानीकं आयुधसमूहमत्याक्तां
त्यक्तवन्तौ विसृष्टवन्तौ । '१०५५। त्यज हानौ' । पूर्ववद्वृद्धिः सिचो लोपः ।
द्विपः शत्रून् क्षयमनैष्टां नीतवन्तौ । '२२९७ । सिचि वृद्धिः-।७।२।१।' ॥ .
१२९५ - अकोकूयिष्ट तत् सैन्यं, प्रपलायिष्ट चाऽऽकुलम्, ॥
 
अच्युतच् च क्षतं रक्तं, हतं चा ऽध्यशयिष्ट गाम् ॥
अकोकूयिष्टेत्यादि - तत् सैन्यं प्लवङ्गमानां भयादकोकूयिष्ट भृशं शब्दं
कृतवत् । '१०१७। कुङ् शब्दे' इत्यस्मात् यङयभ्यासस्य ' २६४१ । न कवतेर्यडि.
।७।४।६३।' इति कुङश्श्रुत्वप्रतिषेधः । ततो यङन्ताल्लङ् । प्रपलायिष्ट पलायते