2026-03-05 04:33:04 by ambuda-bot
This page has not been fully proofread.
३९८ भट्टिकाव्ये - चतुर्थे तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
तावित्यादि - या मृतं जीवयति या च क्षतस्य सन्धानं करोति तथा
विशल्यं च या करोति । '२८४१। कृत्यल्युटो बहुलम् ।३।३।११३।' तामो-
पधीमानेतुं प्राहैष्टामिति योज्यम् । '३५३४। ओषधेश्च विभक्तावप्रथमायाम् ।
।६।३।१३२।' इति दीर्घत्वम् ॥
१२८७ - प्रोदपाति नभस् तेन, स च प्रापि महा-गिरिः, ॥
यस्मिन्नज्वलिषू रात्रौ महौषध्यः सहस्रशः ॥१०६॥
प्रोदपातीत्यादि - तेन हनूमता नभः प्रोदपाति उत्पतितम् । स च महा-
गिरिस्तेन प्रापि प्राप्तः । कर्मणि लुङ् । यस्मिन् गिरौ महौषध्यः सहस्रशोऽनेकधा
रान्नावज्वलिपुः दीप्यन्ते स्म । '२३३०। अतो लान्तस्य ।७।२।२।' इति वृद्धिः ॥
१२८८ - निरचायि यदा भेदो नौषधीनां हनूमता, ॥
सर्व एव समाहारि तदा शैलः सहौषधिः ॥ १०७॥
निरचायीत्यादि - यदा हनूमता ओषधीनां भेदो न निरचायि विशेषतो
न निश्चितः तदा कृत्स्न एव शैलः सहौषधिरोपधिसहितः समाहारि समानीतः ॥
१२८९ - प्राणिषुर् निहताः केचित्,
केचित् तु प्रोदमलिषुः ॥
तमो ऽन्ये ऽहासिषुर् योधा,
व्यजृम्भिषत चाऽपरे ॥ १०८ ॥
प्राणिषुरित्यादि-यदा ओषधिसन्निधानात् ते निहताः केचिद्योधाः प्रा-
णिषुः उच्छसितवन्तः । केचित्तु प्रोदमीलिपुः उन्मीलितलोचना वभूवुः । अन्ये
तमो मोहमहासिषुः त्यक्तवन्तः । '२३७७। यम-रम- ।८।२।७३ ।' इति सगिटौ ।
तथान्ये ऽहासिपुरिति पाठान्तरम् । ते तथाभूतमात्मानं दृष्ट्वा सविलासं हसि -
तवन्तः । अपरे व्यजृम्भिषत जृम्भिकां कृतवन्तः । '४१५/१६ । जभि जृभि
गात्रबिनामे' इत्यात्मनेपदी ॥
१२९०-अजिघ्रपंस् तथैवाऽन्यानो॑षधीरा॑लिप॑स् तथा, ॥
एवं तेऽचेतिषुः सर्वे, वीर्यं चाऽधिषताऽधिकम्. १०९
अजिग्रपन्नित्यादि - तथान्यान् लब्धसंज्ञानोपधीरजिघ्रपन् घ्रापितवन्तः ।
नासिकयाभ्यवहृतवन्त इत्यर्थः । ५४०। गति - बुद्धि- ।१।४।५२ ।' इत्यादिना
प्रत्यवसाने कर्मसंज्ञा । '२५८९ । जिघ्रतेर्वा । ७।४।६।' इति '२३१४ । णौ चङधु-
पधायाः–।७।४।१।' इत्यकारः । तथालिपन् लिप्तवन्तः अन्यानोषधीभिरित्यर्थात् ।
'२५१८। लिपिसिचि-१३।१।५३।' इत्यङ् । एवमनेन प्रकारेण सर्वे ऽचेतिपुः
संज्ञां लब्धवन्तः । '३९। चिती संज्ञाने ।' अधिकं च वीर्यमोषधिबलादधिपत
दंधति स्म । '२३८९। स्था-स्वोरिच । १।४।१७ ' ॥