2026-03-05 04:33:03 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण चधो' नाम पञ्चदशः सर्गः - ३९७
१२८२ - 'मा शोचिष्ट, रघु - व्याघ्रौ नाऽमृपातामिति ब्रुवन् ॥
अवावुद्ध स नीलाssदीन् निहतान् कपियूथपान् ॥
मा शोचिंष्टेत्यादि - यूयं मा शोचिष्ट शोकं मा कुरुत । '२२१९। माङि
लुङ् ।३।३।१७५।' यस्माद्वघुव्याघ्रौ नामृपातां न मृतौ इत्येवं ब्रुवन् अपारी-
दिति योज्यम् । ये च निहतास्तान्नीलादीन् कपियूथपान् स विभीषणः परि-
मन् अवाबुद्ध अवबुद्धवान् । एते हता इति । '२३२८। दीप - १३ १६११' इत्या-
'दिना चिणो विकल्पितत्वादभावपक्षे रूपम् ॥
१२८३ – तत्रैषज् जाम्बवान् प्राणीदमीलीच् च लोचने, ॥
पौलस्त्यं चाऽगदीत् 'कञ्चिद॑जीवीन् मारुता॒ऽऽत्मजः . '
तत्रेत्यादि - तत्र तेषु जाम्बवान् ईषन्मनाक् प्राणीत् उच्छ्वसिति स्म ।
'११४४ । अन प्राणने ।' '२४७८ अनितेः । ८।४।१९।' इति णत्वम् । लोचने
च उदमीली उन्मीलितवान् । '५५६। मील क्ष्मील निमेपणे' । पौलस्त्यं च
विभीषणमगढ़ीत् गदितवान् । '२२८४। अतो हलादेः ७२।७।' इत्यवृद्धौ
रूपम् । कच्चित् किं हनुमान् अजीवीत् जीवितवान् । न मृत इति ॥
१२८४ - तस्य क्षेमे महा-राज ! ना ऽमृष्म खिला वयम्. ॥
पौलस्त्यो ऽशिश्रवत् तं च जीवन्तं पवनऽऽत्मजम्. ॥
तस्येत्यादि- - तस्य हनुमतः क्षेमे जीवितत्वे सति हे महाराज ! अखिलाः
सर्व एव वयं नामृष्महि न मृता इति । '२७९०। आशंसायां भूतवच्च । ३ । ३ । १३२ । '
इति लुङ् । एवमुक्तः पौलस्त्यो जीवन्तं पवनात्मजं तमशिश्रवत् श्रावितवान्
शृणोतेर्ण्यन्ताञ्चङि सन्वद्भावे अभ्यासेवर्णस्य '२५७८ । स्त्रवतिः शृणोति -
१७४८११' इत्यादिना इत्वपक्षे रूपम् ॥
युग्मम् —
१२८५ - आयिष्ट मारुतिस् तत्र, तौ चा ऽप्यहृषतां ततः, ॥
प्राहैष्टां हिमवत्पृष्ठे सर्वौषधि - गिरिं ततः ॥ १०४॥
आयिंष्टेत्यादि - तत्र पौलस्त्याहूतो मारुतिरायिष्ट आगतवान् । '५०८।
'अय गतौ' आङ्पूर्वः । ततो ऽनन्तरं तौ जाम्बवद्विभीपणौ अहृषातां हृष्टवन्तौ ।
'१३०८। हृष तुष्टौ ' पुषादिः । ततस्तौ हृष्टौ हनुमन्तमिति वक्ष्यमाणेन सम्बन्धः ।
ग्राहैष्टां प्रहितवन्तौ । '२२९७। सिचि वृद्धिः - १७२।११' '१३३७। हि गतौ' ।
हिमवत्पृष्ठे हिमवतः पृष्ठे । सर्वौषधिगिरिम् । सर्वा ओषधयो यस्मिन्निति ॥
1
१२८६ - तौ हनूमन्तमा॑ने॒तुमषधीं मृत-जीविनीम् ॥
सन्धान-करणीं चाऽन्यां वि-शल्य - करणीं तथा १०५
३४