2026-03-05 04:33:03 by ambuda-bot
This page has not been fully proofread.
३९६ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
अस्त्रमण्डलं आयुधग्रामं समयष्ट पूजितवान् । स इन्द्रजित् ब्रह्मणः सकाशात्
जयावहमस्त्रं स्यन्दनं चालब्ध लब्धवान् । '२२८१ । झलो झलि ।८॥२६।
इति सिचो लोपः ॥
१२७८ - तम॑ध्यासिष्ट दीप्रा॒ऽग्रम॑मोदिष्ट च रावणिः ॥
छन्न-रूपस् ततो ऽकर्तीद् देहान् रावण-विद्विषाम् . ९७
तमित्यादि - तं स्यन्दनं दीप्रात्रं उपरिभागस्य रत्नप्रत्युप्तत्वात् । अध्यासिष्ट
अध्यासितवान् । '५४२। अधि- शीङ् - 1१18।४६ ।' इति कर्मसंज्ञा । तत्रस्थश्च
रावणिरिन्द्रजित् अमोदिष्ट हृष्टवान् । ततो ऽसौ छन्नरूपः अदृश्यः सन् रावण-
विद्विषां वानराणां देहानकर्तीत् छिन्नवान् । '१४२९। कृती छेदने ।' '२५०६।
सेसिचि -।७।२।५७१' इत्यादिना सिचो न्यत्रेविकल्पः । ' रावणिविद्विषाम् '
इति पाठान्तरम् । तत्र देवान्तकादिविद्विषामित्यर्थः ॥
१२७९-सप्त-षष्टिं प्लवङ्गानां कोटीर् बाणैरसूषुपत्. ॥
निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्. ९८
सप्तषष्टिमित्यादि - वानराणां कोटीः सप्तषष्टिं वाणैरसूपुपत् स्वापितवान्
व्यापादितवानित्यर्थः । '२५८४ । स्वापेश्चङि । ६। १।१८।' इति सम्प्रसारणम् ।
निशान्ते च निशावसाने रावणिः क्रुद्धः सन् राघवौ व्यमूमुहत् मोहितवान् ।
'१२७४ । मुह वैचित्ये ।' णौ चङि रूपम् ॥
१२८०-अपिस्फवत् स्व-सामर्थ्य गृहीत् सायकैर् दिशः, ॥
अघोरीच् च महा-घोरं, गत्वा प्रैषीच् च रावणम् ९९
अपिस्फवदित्यादि - तौ मोहयित्वा आत्मीयं सामर्थ्यमपिस्फवत् वर्ध-
यति स्म । 'ईदृशस्तादृशो ऽहम्' इति । '२५९७। स्फायो वः । ७।३।११।' इति
णौ चत्वम् । दिशः सायकैरगृहीत् छादितवान् । '२२६८। नेटि ।७।१।४।'
इति वृद्धिप्रतिषेधः । ह्रयन्तत्वाद्वा । महाघोरं चातिरौद्रं शब्दमघोरीत् मुक्त-
चान् । गत्वा च लङ्कां रावणं प्रैपीत् प्रेषितवान् । 'गच्छ तत् ममाद्भुतपराक्रमं
द्रष्टुम्' इति । 'इषु गतौ' ॥
युग्मम् —
१२८१ - विभीषणस् ततो ऽबोधि स-स्फुरौ राम-लक्ष्मणौ ॥
अपारीत् स गृहीतोल्को हत- शेषान् प्लवङ्गमान्. १००
विभीषण इत्यादि - ततस्तस्मिन् काले विभीषणः रामलक्ष्मणौ सस्फुरौ
चलन्तौ अबोधि बुद्धवान् जीविताविति । '२३२८। दीप -जन-।३।१।६११' इत्या-
दिना कर्तरि चिण् । स्फुरणं स्फुरः । घनर्थे कविधानम् । यदुक्तं स्थास्नागान्य-
धिहनियुध्यर्थमिति तदुपलक्षणं न परिगणनम् । स विभीषणः अन्धकारात,
गृहीतोल्कः सन् हतशेपान् लवङ्गमानपारीत् 'मा भैष्ट' इति प्रीणितवान् ॥