2026-03-05 04:33:03 by ambuda-bot
This page has not been fully proofread.
तथा लक्ष्य रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः - ३९५
अन्धकारमतानिष्टां विस्तारितवन्तौ । '२२८४। अतो हलादेर्लघोः ॥२७।
इति वृद्धिविकल्पः ॥
१२७३ - सौर्यानेये व्यकारिष्टामस्त्रे राक्षस-लक्ष्मणौ ॥
"
ते चोपागमतां नाशं समासाद्य परस्परम् ॥ ९२ ॥
सौर्याग्नये इत्यादि - राक्षसः सौर्यमस्त्रं व्यकारीत् विक्षिप्तवान् ' १५०३ ॥
कॄ विक्षेपे ।' लक्ष्मणो ऽप्याग्नेयं इत्येवं तौ व्यकारिष्टाम् । ते चास्त्रे परस्परमा-
साद्य प्राप्य नाशमुपागमताम् । लुदित्त्वादङ् ॥
.१२७४–अविभ्रजत् ततः शस्त्रमैषीकं राक्षसो रणे, ॥
तदप्य॑ध्वसदा॑साद्य माहेन्द्रं लक्ष्मणेरितम् ॥ ९३ ॥
अविभ्रजदित्यादि - ततो ऽनन्तरं रावणिः ऐपीकमस्त्रम् । इपीकाया
इदम् । तत्सर्वस्रोतःसु प्रविशत् जीवितमपहरति । रणे अविभ्राजत् दीपित-
वान् । '२५६५। भ्राज-भास - ।७।४।३।' इत्यादिना उपधाया हस्वत्वम् । तदपि
अध्वसत् ध्वस्तम् । ध्वसिद्युतादिः । लक्ष्मणेरितं लक्ष्मणप्रेरितं माहेन्द्रमस्त्र-
मासाद्य तद्गतिरोधं कृत्वा ध्वंसयति स्म ॥
१२७५ - ततः सौमित्रिर॑स्मार्षीद॑देविष्ट च दुर्जयम् ॥
ब्रह्मस्त्रं, तेन मूर्धानम॑दध्वंसन् नर - द्विषः ॥ ९४ ॥
तत इत्यादि-अनन्तरं सौमित्रिः दुर्जयं अनभिभवनीयं ब्रह्मास्त्रमस्मापत्
स्मरति स्म । '२२९७। सिचि वृद्धिः - ७/२/११' तच्च स्मरणादुपस्थितं अदेविष्ट
द्योतते स्म । '५३३।३४। तेवृ देव देवने' इति अनुदात्तेत् । द्योतने द्रष्टव्यः ।
देवनस्यानेकार्थत्वात् । तेन च ब्रह्मास्त्रेण प्रयोजककर्त्रा नरद्विषो राक्षसस्य मूर्धा -
नमदध्वंसत् पातितवान् सौमित्रिः । हेतुमण्ण्यन्ताच्चङि रूपम् ॥
१२७६–ततो ऽक्रन्दीद् दशग्रीवस् तमा॑शिश्वसदिन्द्रजित् ॥
निरयासीच् च संक्रुद्धः, प्रार्चिचच् च स्वयम्भुवम्. ९५
तत इत्यादि - ततः सुतमरणानन्तरं दशग्रीवः अक्रन्दीत् रोदिति स्म ।
तं च क्रन्दन्तमिन्द्रजिदाशिश्वसत् आश्वासितवान् । 'मयि जीवति किं वृथा
जनवद्रोदिषि' इति । हेतुमण्ण्यन्तस्य चङि रूपम् । संक्रुद्धश्च निरयासीत् ।
रावणगृहान्निर्गतः । '११२३ । या प्रापणे' । निर्गत्य च स्वगृहे स्वयम्भुवं ब्रह्माणं
प्राचिचत् पूजितवान् । '१९४५ । अर्च पूजायाम्' इति चुरादिः । '२३१५॥ चङि
।६।१।११। अजादिद्विर्वचनम् ॥
१२७७ - अहौषीत् कृष्णवर्त्मानं, समयष्टा ऽस्त्र - मण्डलम्, ॥
सो ऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जया॒ऽऽवहम्.९६
अहौषीदित्यादि -- कृष्णवर्त्मानमग्निमहौपीत् हन्येन प्रीणितवानित्यर्थः