This page has not been fully proofread.

३९४ भट्टिकाव्ये – चतुर्थे तिङन्तकाण्डे लक्षण-रूपे द्वितीयो वर्गः,
 
तुप प्रीतौ' ण्यन्तः । महास्त्राणि दिव्यानि चाशिक्षिष्ट शिक्षते स्म । '६४७
शिक्ष विद्योपादाने' रणे च राक्षसानरक्षीत् रक्षति स्म ॥
१२६९-अध्यगीष्टा ऽर्थ - शास्त्राणि,
यमस्या होष्ट विक्रमम्, ॥
देवाऽऽहवेष्वदीपिष्ट,
 
ना ऽजनिष्टा ऽस्य साध्वसम् ॥ ८८ ॥
 
अध्यगीष्टेत्यादि - अर्थशास्त्राणि पराभिसन्धानार्थानि अध्यगीष्ट अधीत---
वान् । '२४६०। विभाषा लुङ् लुङोः । २।४।५०।' इति इङो गाङादेशः ।
यमस्याप्ययं विक्रममह्नोष्ट अपनीतवान् । '११५६ हुङ् अपनयने ।' अहलन्त -
त्वात्सिचो न किव्वम् । देवाहवेष्वदीपिष्ट शोभितः । अस्य च साध्वसं भयं नाज-
निष्टं न जातम् । '२३२८ दीप जन - । ३।१।६११' इत्यादिना चिण्वद्भावपक्षे रूपम्॥
१२७० - एष रावणि/पादि वानराणां भयङ्करः ॥'
 
आह्वता ऽथस काकुत्स्थं धनुश चा ऽपुस्फुरद् गुरु. ॥
एष इत्यादि य एवं स एप रावणिः आपादि अस्माकं समीपमागतः ।
'१२४४। पद गतौ ।' '२५१३ । चिण् ते पदः । ३।१।६०।' इति चिण् । यतो
रावणिर्वानराणां भयङ्करः । अथ सो ऽतिकायः समीपमागतः काकुत्स्थमाह्वत
युद्धायाहूतवान् । '२४१९। आत्मनेपदेष्वन्यतरस्याम् ।३।१।५४।' इत्यङ् । धनुश्च
गुरु महदपुस्फुरत् स्फारितवान् । '२५६९ । चि- स्फुरोणौं ।६।१।५४।' इत्यात्वम् ॥
१२७१ – सौमित्रिः सर्पन्वत् सिंहमार्दिदत् तं महाऽऽहवे. ॥
 
तौ प्रावीवृततां जेतुं शर- जालान्यनेकशः ॥ ९० ॥
सौमित्रिरित्यादि — यथा सर्पः सिंहं गच्छति तद्वत्तमतिकायमार्दिदत् गत-
वान् । '५६॥ अर्द गतौ ।' अर्दनमर्दः । तत्करोतीति णिच् । तदन्ताच्चङि रूपम् ।
'१९६८। अर्द हिंसायाम्' इति चौरादिको वा । तौ सौमित्र्यतिकायौ जेतुं
शरजालानि प्रावीवृततां बहूनि प्रवर्तितवन्तौ '२५६७। उर्ऋत् ।७।४।७।' इति
णौ चङ्युपधाया अपवाद ऋकारः ॥
 
१२७२ - अच्छेत्तां च महाऽऽत्मानौ, चिरम॑श्रमतां न च ॥
 
तथा तावस्थितां वाणान॑तानिष्टां तमो यथा ॥९१॥
अच्छेत्तामित्यादि - तौ च महात्मानौ परस्परस्य शरजालानि अच्छेत्तां
छिन्नवन्तौ । '२२६९। इरितो वा । ३।१।५७१' इत्यङभावपक्षे रूपम् । '२२८१
झलो झलि । ८।२।२६।' इति सिचो लोपः । चिरं चिरेणापि नाश्रमतां न
श्रान्तौ । श्रमिः पुषादिः । तौ तथा बाणावास्थतां क्षिप्तवन्तौ । (२४३८
अस्यति-वक्ति-।३।१।५२।' इत्यङ् '२५२०। अस्यतेस्थुक् । ७।४।१७।' यथा